This page has been fully proofread once and needs a second look.

36 The thirty-two Bharaṭaka stories.
 
र्गुग्गुलिनामा जटी देशंतराद्बहुभिर्वर्षैर्यजमानवंदापनायायात एकं च
श्लोकमाशीर्वादाय धारयित्वा । यथा ।
 
स धूर्जटिजटाजूटो जायतां विजयाय च ।
यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी ॥ १ 27
 
पुनर्मंत्रिपुरस्तादागते जटिनि क्षोभवशाच्छ्लोको विस्मृतः । पश्चादुच्चैर्नी-
चैर्विलोक्य चेल्लकपार्श्वे पृष्टं । भोः कथय कः श्लोकस्यादिः । स वक्ति ।
टकारा बहवः संति श्लोके । गुरुर्वति । स्मृतः । यथा ।
 
फुट २ फुटा २ फौटो जायतां वइजला इव । 28ab
इत्यर्धोक्ते स्थित्वा पश्चात्तत्त्रासतो बलीवर्दमहिषादर्शनेपरार्धे कल्पितं ।
यथा ।
यत्रैकबलद भइसि सांगण महता क्वइ भली ॥ २ 28 cd
मंत्री विस्मितः ॥ इति विंशतमो कथा ॥ २० ॥
 
विस्मारकः परस्य स्यादुपदेष्टा नरः कथं । 21
उपदेष्टुं श्लोकयुगध्यायी भरटको यथा ॥ १ 29
 
शंबुकबाम एको जटी वसति स्म । तत्रत्वस्यैकस्य यजमानस्य पुत्रः
परिणीतः । महर्द्विकत्वेन तत्र भूयांसो लोका मिलिताः । तदा गुरुणा
भौतिकेन वधूवरयोर्देवांगणक उपदेशदानाय मंगलमयं श्लोकद्वयं पंच-
षैर्दिनैरुद्घोष्य धारितं । पुन: २ परावर्त्यैव स्थिरीकृतं । ततो देवां-
गणके बहुलोकसमुदायेन वधूवरयोर्गुरोर्वम्दनार्थमागतयोर्यावज्जट्युप-
देशं दातुं प्रवृत्तः तावता क्षोभाच्छ्लोकद्वयमपि विस्मृत्य गतं । ततो
बहूच्चैर्नीचैर्विलोकनपूर्वं श्लोकस्मारणेपि यावता न स्मरति तावता
विलक्षीभूतेन भौतिकेनोक्तं। द्वयोर्भट्ठि: पततु । ततो लोकस्तस्याती-
वमौढ्यं मन्यमानो हासपूर्वमुत्थितः ॥ इत्येकविंशतमी कथा ॥ २१ ॥
 
संसर्गं नैव कुर्वीत प्राज्ञो विज्ञानवर्जितैः ।
संदेहप्रश्नाज्जटिभिः सुधीर्धीरहितः कृतः ॥ १ 30
 
पाडलपुरे नगरे देवशर्मणो द्विजस्य सोमशर्मा सुतोभूत् । स
दक्षिणदिशि सरस्वतीलब्धप्रसादचंगदेवगुरोः पार्श्वे षोडश वर्षाणि
यावता चतुर्दश विद्या: सांगोपांगा अधीत्य पंचशतपुस्तकपृष्टवांग्भिः
सह बहुपरिवारोपेतस्तं गुरुं मुत्कलाप्य स्वकीयपुरं प्रति चचाल ।
गुरुणा शिक्षा दत्ता । यथा । भोस्त्वया भरटकानां संगतिर्न कार्या