This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 35

न कार्य: केवलोद्घोष: पदच्छेदमकुर्वता ।
वैद्यवाक्याद्यथा मूर्खो जटी गुरुमपिट्टयत् ॥ १ 24
 
सुवालाग्रामे टिक्कको जटी । तस्यैक उद्घोषक: शिष्योभूत् ।
एकदा तस्य गुरुः श्लेष्मविकारेण भृशं पीडितः । ततः शिष्येन वैद्य -
पार्श्वे तदौषधं पृष्टं । वैद्येनोक्तं । यथा । गुड । दाडिम । सूंठि ।
मिरी । इति । ततो मार्ग आगच्छञ्छिष्य उद्घोषयति पदच्छेदमकुर्वाण: ।
ततो मठ्यासन्नागमने जातं यथा । गुडदा १ । डिमसुं २ । ठिमिरी३ति ।
ततो मठ्यामागत्व प्रथममाद्यं गुडदा इत्यौषधं कृतं । ततोग्रेतनौषध-
द्वयार्थं पृच्छायै पुनर्वैद्यगृहे गतः शिष्यः पृष्टं च । भो वैद्य मया त्वदुक्तं
गुडदा इत्यौषधं स्वगुरोः कृतं । अग्रेतनस्य डिमसुं ठिमिरी तस्य
कोर्थ: । ततो वैद्येनोक्तं । महामूर्ख पापिष्ट किं कृतं । त्वया वराको
गुरुर्मुधा मारितः । पश्चात्तदौषधचतुष्कं त्यक्त्वा प्रोच्यार्पितं च स्वगृ-
हात् ॥ इत्यष्टादशी कथा ॥ १८ ॥
 
अनभिज्ञे गुरौ तत्त्वं कथं वीक्षेत शैक्षकः ।
विद्युतं वीक्ष्य जटिनो विवादप्रवणौ यथा ॥ १ 25
 
मोहलग्रामे करमंदो जटी । तस्योभौ शिष्यौ । तावेकदा निशायां
मेघमालाच्छन्ने नभसि विद्युद्घोषं दृष्ट्वा विवदाते । यथा । एकेनोक्तं ।
भोः पश्य २ । नभसि प्रदीपनं लग्नं । तज्ज्वाला एता दृश्यंते । द्विती-
येनोक्तं । मा मृषा वद । इयं शकटिकास्ति । अस्या ज्योतिश्चक्रं सर्वं
शीतपीडितं तापयदस्ति । इत्यादिकलहं कृत्वा शिष्याभ्यां गुरुसमीपे
संदेहः पृष्टः । भो गुरो किमिदमिति । गुरुरपि तद्दृष्ट्वाजानन् स्वय-
मेव किंचित्कल्पयित्वा वक्ति । भोः शिष्यौ नेदं प्रदीपनं । नैषा च
शकटिका ज्वलंत्यस्ति । किं तु सूर्यो मुख कंथयित्वा विलोकयन्नस्ति
किं सुप्रभातं न वा इति । यदि प्रभातं भवति तदाहमप्युदयं करोमि
नान्यथा । इत्युक्त्वा * * ** विवादो भग्नः ॥ इत्येकोनविंशतमी
कथा ॥ १९ ॥
 
अतिघोषेपि मूर्खस्य विस्मरत्येव धारितं ।
यथा सांगणसचिवगुरोर्हि जटिन: पुरा ॥ १ 26
 
ऋद्धपुरे सांगणो मंत्री भृशं भौतिकभक्तोस्ति । एकदा तस्य गरु-