2023-03-28 11:53:08 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
भिक्षितोहं । मम वराकी भरटिका रंडिता । लोका वदंति । अरे
मूर्ख त्वयि जीवति सा कथं रंडिता । स वक्ति । अहं किं जाने ।
अयं मच्छिष्यः संप्रत्येव तस्याः पितृगृहाच्छुद्धिं लात्वागतः " । लोकैर्हस-
द्भिरुक्तं । भो: पत्यौ जीवति स्त्री रंडा न भवति । स न मन्यते ।
ततोनेकैः शपथैर्दृष्टांतैश्च बोधितः ॥ इति पंचदशी कथा ॥
केचिज्जडधिय: कार्ये पारंपर्यं न जानते ।
पात्रपक्षद्वयात्क्षिप्ते घृततैले तपस्विना ॥ १ 22
लक्ष्मीपुरे पुरे धक्कटो जट्यस्ति । तस्य मोढक: शिष्योतिमूर्खः ।
स एकदा गुरुणा घृततैलानयनाय हृट्टे प्रेषितः । तेन तदर्थमेकमेव "
धूपकडुच्छकं गृहीतं । तस्य कस्यचिद्वणिजो हृट्टे मूल्यमर्पयित्वा घृतमे 10
कस्मिन् पक्षे प्रथमं क्षेपितं । पुनस्तैलं विपर्ययं कृत्वा द्वितीयपक्षे चेपितं ।
एवं मद्यामागत्य गुरोदर्शितं कथितं च । मया घृततैले आनीते स्तः ।
गुरुणोकं । क्व । तेन दर्शितम् । इदं तैलं । गुरुणोतं । घृतं क्व ।
शिष्येन धूपदहनस्य विपर्ययं कृत्वा दर्शितम् । इदं घृतमिति । तावता
तैलमपि भूमी पपात । एवं द्वयमपि त्यक्तं । एवं न कार्य ॥ इति ध
षोडशमी कथा ॥ १६ ॥
बहुनापि विचारेण न मूर्खस्तत्त्वमीक्षते ।
यथा शंडविषाणांतःक्षिप्तमौलिर्जटी पुरा ॥ १ 23
मंगग्रामे सुविचारो नाम जट्यस्ति । स भिक्षार्थं कस्यचिद्गृहे याति ।
तस्य च गृह एकं वृत्तशृंगं स्थूलवपुषं शंडं पश्यति । ततः प्रतिदिनं
विचारयति । किं मम मस्तकमेतस्य शृंगयोरंतराले माति न वेत्यादि ।
एवं षण्मासी जगाम । ततः स चिंतयति । अद्य क्षिपामि शिरः ।
मम तु विचारयतः षण्मासी गता । एतावद्विचारेण कार्यं कृतं सुकृतं
भवति । विमृश्य शिरः क्षिप्तं । तावता षंडो बंधनं त्रोटयित्वा पला-
यित: पुरमध्ये बभ्राम च । जटी तु तदग्रे लंबमानो विरौति । ता-
वता भूयांसो लोका मिलिताः । तैर्महता कष्टेन मोचितः । ततो
लोकैश्चोक्तं । अरे मूर्ख त्वमविचार्यकार्योसि । स वक्ति । भवंतो मूर्खा
अविचारितकार्याश्च । मया त्विदं कार्यं षण्मासविचारेण कृतं । ततो
लोकैराक्रुष्टं । एवं बुद्धिमद्भिर्न कार्यं ॥ इति सप्तदशमो कथा ॥ १७ ॥