2023-03-28 11:57:36 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
सुघोषग्रामे भूयांसो जटिनो वसंति । तेषां मध्य एकः सर्वपशु-
नामा जट्यस्ति । तेनैका वाटिका कृता । सा कियद्भिर्वर्षैर्दिव्यद्रुमपु-
ष्पफलोपचिता स्वर्वाटिकाकल्पाजनि । तस्यां रात्रौ कामधेनुरागत्य
चरति । प्रभातप्रायायां रात्रौ पुन: स्वर्गेणोत्पत्य याति । एवं प्रत्यहं
तया विनाश्यमानायां वाटिकायां धनिकजटिना रात्रौ सावधानीभूय
स्थितं । तावता गौरागता । तां सम्पूर्णं रात्रिं यावच्चरित्वा पाश्चा-
त्यरात्रौ स्वर्गच्छंतीं दृष्ट्वा जटी पुच्छे विलग्नः स्वर्गे गतः । तत्र सरस-
मोदकादि भक्षितं प्रीतश्च तद्रसेन । पुनरन्यदिने तत्रत्यमेकं सिंहके-
सरमोदकं लात्वा तस्याः पुच्छे विलग्य स्ववाटिकायामायातः । प्रातः
स्वगृहे गतः । अन्ये जटिनो मिलिताः । तैः पृष्टं । त्वं क्व गतोभूः
स वक्ति । अहं स्वर्गे । तत्रेन्द्रचंद्रेश्वरविनायकादयो दृष्टाः । ईदृशाश्च
मोदका भक्षिताः । इत्युक्त्वा तान्दर्शयति । तैर्भौतिकैस्तस्य खंडं २
भक्षितं । जिह्वायां लग्नं । तैरुक्तं। भोरस्मानपि स्वर्गे नय यतो
वयमपि स्वर्गं पश्यामस्तत्सत्कान्मोदकान्मक्षयाम: । ततस्तेनोक्तं । सर्वेपि
मया सह वाटिकामध्य आगच्छेतु । प्रच्छन्नास्तिष्टंतु । यदा गौश्च
रित्वाकाश उत्पतति तदाहं तस्याः पुच्छे लगिष्यामि । मम पादेन्येन
तस्याप्यपरेण लगनीयम् । एवं सर्वैरपि श्रेणि: कार्या । एवं कृत्वा
सर्वेप्युत्पतिताः । अर्धमार्गगमन एकेनाधःस्थेन संदेहः पृष्टः । भोः स्वर्गे
कियन्माना मोदका: संति । ततो मुख्यभरटकेन भृशं मूर्खेण गोः
पुच्छं मुक्त्वा हस्ताभ्यां दर्शितं । मोरियन्मानास्ते संतीति । ततः
सर्वेपि भूमौ पतिताः । एवमनवसरे संदेहो न प्रष्टव्यः ॥ इति त्रयो
दशकथा ॥ १३ ॥
वाक्यतत्त्वमजानंश्च यथादृष्टप्रवर्तकः ।
वैद्यपिट्टितपुत्रेक्षिजटिवद्राजते नहि ॥ १ 20
कोरंटकग्रामे बधिरो वृद्धो जटी वसति । तस्य शिष्यो बाधि-
र्यदूनस्तद्व्यपगमोपायान्मार्गयति । एकदा भिक्षायै स कस्यचिद्वैद्यस्य गृहे
जगाम । पूर्वमपि च तस्य वैद्यस्य गृहेष्टवर्षीयो बाल: पित्रा लेखशा-
लागमनाय शिष्यमाणोस्ति । पित्रा बहु वादितोपि रोषात्स नोत्त-
रयति । ततः पित्रोक्तं । भो : किं न शृणोषि । तथापि न
वक्ति । ततो भृशं रुष्टेन पित्रा स्थंभे दृढं बद्ध्वा चपेटयता पिट्टितो