2023-03-28 11:59:16 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
III. Text of Bharaṭakadvātrimśikā 31
स्वयं मूर्खालसो यश्च परवागविचारकः ।
स दुःखी स्थाद्यथा शीतपीडितो जटिलः पुरा ॥ १ 16
कुरडग्रामे धरडो नाम भरटको भून्मूर्खोत्यलस शिष्ययुतः । एकदा
शीतर्तौ स्फीते शीते पतति मध्यरात्रे स भौतिको लघुनीत्यर्थं मठ्या
बहिर्निर्गतः । तां कृत्वा स भृशमलसत्वेन तत्रैव स्रस्तरभ्रांत्या पपात
निद्राघूर्णमान: । पाश्चात्यप्रहरे स शीतेन भृशं पीडित: कोकूयते ।
शिष्यस्य च कथयति । भोः शिष्य किमहं स्रस्तरे मठीमध्ये वास्मि ।
बहिर्वाचं श्रुत्वा सोपि तादृगेवालसः शयित एव स्वहस्तेन गुरोः
स्रस्तरं विलोकयति । तत्र शयितस्य पुनः पुच्छं तस्य करे लग्नं । ततः
शिष्यो वक्ति । भो गुरो तव पुच्छमस्ति न वा । सोपि तच्छ्रुत्वा
स्वकच्छोटिकां करेण संभाल्य वक्ति । भोरस्ति मम पुच्छं । ततः शि-
ष्येणोक्तं । तर्हि मठीमध्ये स्रस्त्तरे त्वमसि । ततः स तद्वचनप्रत्ययेन
स्वमौढ्येन च तत्र पतित एव शीतेन पीडितो मृत इव जातः । प्रा-
तर्लोको मिलितः । तं तथा पतितं दृष्ट्वा लोकः पृच्छति । भोः किं
जातं । शिष्यो वक्ति । नाहं जाने । पश्चात्सूर्यकरस्पृष्टः प्राप्तचैतन्यो
भौतिक उत्थापितः । लोकानां तु कौतुकमभूत् ॥ इत्येकादशकथा ॥ ११ ॥
औषधाढ्यो न कार्यज्ञो मूर्खं पश्येद्यथा जटी ।
वैद्यातिविषदानेपि विषेणामारयद्गुरुं ॥ १ 17
कोलकग्रामे वृद्धो जूटको जन्यस्ति । स एकदा ज्वरविकारेणात्यर्थं
पीडितः । संनिपाताधिक्ये जाते तदीय शिष्येण वैद्यगृहे गत्वौषधं पृष्टं ।
तेनातिविषमुत्काल्पदेयमित्युतं । शिष्येण मार्ग आगच्छता चिंतितं ।
वैद्येनातिविषमुक्तं । मम गुरुस्तु भृशं दुर्बलः । तेन प्रथममतिविषं न
सहिष्यते । ततः प्रथमं विषं ददामि तस्य ज्वरे त्वतिविषं । इति
गांधिक्यहट्टाद्विषमानीय घोलयित्व स्वगुरोर्दत्तं । तेन गुरुः शीघ्रं म-
मार । लोकैः शिष्यो निंदितः । एवं न कार्यं ॥ इति द्वादशमी
कथा ॥ १२ ॥
विचार्य वेलां प्रष्टव्य: संदेहो न यथा तथा ।
दृष्टांतोत्र स्वर्गधेनुपुच्छलग्नजटिव्रजः ॥ १ 18
सर्वेपि लोभिनो यत्र मंदबुद्धिजनाश्रिताः ।
तत्र नैवानुगैर्भाव्यं तां श्रुत्वा मोदकीं कथां ॥ २ 19