This page has been fully proofread once and needs a second look.

30 The thirty-two Bharaṭaka stories.
 
परावर्तनादपरा पुष्टा स्थूलस्तनी गौरानीयतां । ततस्तां लात्वा पंचषा
जटिनो मिलित्वा गोकुले गताः । ततो गोकुलपतेरुक्तं । इमां ला-
त्वास्माकमपरा गौर्दीयतां । ततस्तेनोक्तं । भो भवतां या रोचते तां
गृह्णीत तासु मध्ये । ततस्तैर्महामूर्खैः सर्वतो विलोक्य दुर्बलत्वेन सर्वा
गास्त्यत्वैकः पुष्टः शंडो गोबुद्ध्या जगृहे । ततस्तं स्वगृहे नीत्वा यावता
सर्वेपि जटिनो दोहाय प्रवृत्तास्तावता बिंदुरपि न निर्गतः । तत-
स्तेत्यादरेण दोहाय प्रवृत्ताः । ततो गाढपीडने तेन पादप्रहारं दत्त्वो-
त्पतितः । ततः सर्वेपि विलक्षीभूताश्चिंतयंति । कुतो दुग्धं न निर्ग-
च्छति । तत एकेन वृद्धजटिना महाबुद्धिमता प्रोक्तं । भो भरटका
वूयं कारणं न जानीत । ततोपरैरुक्तं । भोः किं कारणम् । इति
पादयोर्लगित्वोक्तं । ततस्तेनोक्तं । एतस्या गो: स्तने छिद्रं नास्ति ।
तेन दुग्धं न निस्सरति । अपरैरुक्तं । सत्यं रे सत्यं । तत एकस्य
जटिनो जटाभिरग्रेतनपादयोर्बद्धः शंडो द्वितीयस्य तु जटाभिः पाञ्चा-
त्यपादयोः । एवं कृत्वा केनचिज्जटिना स्यूतकेन वृषणे छिद्रं कर्तुं प्रा-
रब्धं । तावता स उत्पत्य फालां दत्त्वा पलायित: । जटिनोर्जटास्त्रु-
टिता: । लोका बुंवापरा मिलिता हसंतस्तेषामाक्रोशान्ददुः । ततस्ते
भरटका अस्माकं गौर्गच्छति २ इत्यालपंतः पृष्टौ लग्ना: । एवं तेषां
पश्यतामेव स शंडो वने गतः । ततः सर्वेपि जटिनो मिलित्वा मंत्र-
यंति । यथा । इयं गौर्न भव्या । पुनर्नवीना गृह्यते । इति पंचशतं
द्रम्मा लात्वा सार्थेन सहैको भौतिको विशिष्टधेनुग्रहणाय चलितो
ग्रामांतरं प्रति । रात्रावंतराले क्वापि देवकुले पंचषैः सार्थिकैः साकं
शयितः । मध्यरात्रेपरेषु निद्रयाघूर्णमानेषु तस्मिंश्च भरटके जाग्रति
चौरा आगताः । तैस्तं जीर्णशटितवाससं भूतखरटिकं च दृष्ट्वा प्रोक्तं ।
भोः किमनेन मुषितेन । अयं कोपि रंकः शयितोस्ति । अतः स्थानांतरे
गम्यते । एवं तदालापं श्रुत्वा जटी वक्ति । भवंती रंककाः । भवतां
जनको रंकः । अहं धनी । मम पंचशतं द्रम्माणामस्ति । इत्युक्त्वा
ग्रंथिं वादयित्वा दर्शयति । यदि च न मन्यध्वे तदैतान्सार्थिकान्पृ -
च्छत । ततश्चौरैः पश्चाद्वलित्वा प्रथमं स पूर्वं लुंटितः पश्चात्सर्वेपि
लुंटिता: । ततस्तैराक्रुष्टो भौतिक: शिर: कंडूययित्वा स्वगृह आगतः ।
एवं न कार्यं ॥ इति दशमी कथा ॥ १० ॥