This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 29
 
राजमान्यत्वेन द्वितीय दिने तेन नटपेटकेन रात्रौ पुरोहितगृहे नाटकं
मंडितं । भूयांसोपि लोका अवलोकका मिलिताः । ततस्तेन नट-
पेटकेन प्रहरत्रयं यावन्नानारूपरसोपेतगीतांगहारांगविक्षेपहस्तकादि-
प्रकारैर्नाटकं कृतं । परं तस्यातिमूर्खस्य पाषाणप्रायस्य पुरोहितस्य
किमप्याश्चर्यं नाजायत । ततः स किमपि न दत्ते । ततः सूत्रधारो
विलक्षश्चिंतयति । नूनमयं महामूर्ख सर्वथायोग्यः संभाव्यते सर-
सकथारसानां । ततः कमप्यधीश्वरसत्कं प्रबंधं मुग्धजनरंजनोचितं
कौतुककारि प्रस्तावयामि यतस्तच्छ्रवणात्संतुष्टो दानं ददाति ।
इति विमृश्य प्रस्तावयति । यथा ।
 
कहिसु भरडक जं जं कीउं । 14
 
इतीदं श्रुत्वा स भरटक: स्वयं शंकित: । निश्चितमेष सूत्रधारो
मदीयं वाणारस्यां रजकगृहे भोजनं जानाति । तल्लोकमध्ये " मा
प्रकाशयतु । इति हेतोः सुवर्णाभरणपट्टकूलादि बहु दानं दत्तं ।
पुनर्लब्धोपायेन सूत्रधारेण तदेव पदं द्वितीयवारं प्रस्तावितं ।
भरटकेन पुनर्दानं दत्तं । एवं तृतीयवेलायां । चतुर्थवेलायां कुपितेन
भरटकेन स्वयमेव स्वकृतं दुष्कृतं प्रकटीकर्तुं प्रोक्तं । यथा । भोः
सूत्रधार त्वं पुन: २ किं कथयसि कहिसु भ० इत्यादि । याहि
कथय । मया वाणारस्यां बुभुक्षया म्रियमाणेन रजकगृहे भुक्तं ।
एतदेव कथयसि । कथय तर्हि । अतः परं किमपि न ददामि ।
तच्छ्रुत्वा लोकः सर्वो विस्मितः । नाटकं विसर्जितं ॥ इति नवमी
कथा ॥ ९ ॥
 
व्यवहारमजानानो नरः शोभां बिभर्ति नो ।
लोकोपहासं चाप्नोति शंडदोग्धा यथा जटी ॥ १ 15
 
सुस्थितग्रामे बहवो भरटका वसंति । एकदा तैर्भिक्षायां गतैः
कस्यापि कौटुंबिकस्व गृहे पायसं घृतशर्करोपेतं लब्धं । तैस्तद्भुक्तं ।
जिह्वायां लग्नं । तदुत्पत्तिर्भरटकैर्यजमानेभ्य: पृष्टा । तैः स प्रकार:
प्रोक्तः । ततो द्रव्येण तैरेका गौ: क्रीता नवप्रसूता दुर्बला च ।
ततोन्यैर्भरटकैः प्रोक्तं । भो मूर्खा भवद्भिरेषा दुर्बला गौ: किमर्थ
क्रीता । एषा च लघुस्तनी । स्वल्पमेव दुग्धं दास्यति । अतोस्याः