This page has been fully proofread once and needs a second look.

28 The thirty-two Bharaṭaka stories.
 
आत्तव्रताः स्वसंकल्पात् प्रवर्तते यथा २ ।
विडंबयंति ते स्वंते प्रापीक्षुग्रहिकशष्यवत् ॥ १ 12
 
मल्लानकग्रामे निस्संगो नाम जटी । अति वयसि वर्तमानो
धर्मार्थी सन्न कस्यापि सत्कमदत्तं गृह्णाति । स एकदा पुरबहि-
र्भ्रमन् क्वापि इक्षुवाटके सरसेक्षुदंडान्दृष्ट्वा जिघृक्षुरनुज्ञापनार्थ वाट-
कमेवमवादीत् । भो वाटक २ गृह्णामि चिचतुरानिक्षुदंडान् ।
पुनः स स्वयमेवोत्तरयति । गृहाण पंचषान् । एवं स्वयमेवानु-
मतिं लात्वा पंचषानिक्षुदंडान् गृहीत्वा याति । एवं सर्वदा क्रिय-
माणे धनिकेन ज्ञातं । को नाम पापिष्टो मदीयवाटिकादिक्षुदंडान्
गृहीत्वा याति । तदद्य प्रच्छन्नीभूय विलोकयामि । इति विचिंत्य
प्रच्छन्नीभूय स्थितः । ततस्तस्मिंस्तथा कुर्वति धनिकः प्रकटीभूय हक्क-
यामास । ततो जटी वक्ति । भो मा कुपः । अहं सर्वदापि
मुत्कलाप्यैवेक्षुदंडान् गृहीतवान् । धनिकेनोक्तं । कथं । तेन स
प्रकार: कथितः । ततो रोषाध्मातेन तेन जटिनं दृढं बद्ध्वा कूप-
समीपे च लात्वा प्रोक्तं । कूप २ कथय । आछुकाद्दापयामि ते
त्रिचतुरा डबकिका: । दापय पंचषाः । इत्युक्त्वा बहु विडव्य वराको
मुक्तः शिक्षितश्चात: परमेवं कदापि न कार्यमिति ॥ इति अष्टमी
कथा ॥ ८ ॥
 
स्वं प्रच्छन्नकृतं कर्म गर्हितं शंकया जड: ।
भाषते स्वयमेवात्र राजमान्यो जटी यथा ॥ १ 13
 
सुप्रभपुरे रिपुमर्दनो नृपोभूत् । तत्र च घरटको नाम भरट-
कोतिदरिद्रो वसति । स एकदा लक्ष्मीसमुपार्जनार्थं विदेशे गतः ।
वाणारस्यां च पुर्यामेकस्मिन्दिने संपूर्णदिनं भोजनार्थं बभ्राम । परं
भोजनं क्वापि नाप । ततो रात्रौ जातायां बुभुक्षया म्रियमाणः
स कस्यापि रजकगृहे जगाम । तत्र श्राद्धादिप्रकरणे जायमाने गृह-
स्वामिना भोजनाय निमंत्रितः । तेनानन्यगतिकत्वेन तत्रापि भुक्त-
माकंठं । पश्चात्कालांतरेण स स्वपुरे समागात् ।दैवानुकूल्याद्राज-
मान्यो राज्ञोतिप्रसादपाचं स पुरोहितो बभूव । अन्यदा तत्र पुरे
विदेशादेकं कलावन्नर्तकपेटकं सभागात् । तेन राज्ञोग्रे स्वकीया
कला दर्शिता । अतिरंजितेन राज्ञा तस्य बहु दानं ददे । ततो