2023-03-28 12:06:08 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
भरटक तव चट्टा लंबपुठ्ठा: समुद्धा
न पठति न गुणते नेव कव्वं कुणंते ।
वयमपि च पठामो किंतु कव्वं कुणामो
तदपि भुख मरामो कर्मणां कोत्र दोषः ॥ १
इत्यादि लोकानां पुरस्तात्सर्वत्र स कथयति स्म च । लोकानामपि
चाश्चर्यं ॥ इति पंचमी कथा ॥ ५ ॥
आत्मकष्टं प्रकाशंतो येषां तेषां यथा तथा ।
दोरिकाकर्षकजटी यथा दुःखी पुराभवत् ॥ १ 10
विकटग्रामे सोमको भरटको वसति । स चैकदा वर्षासत्तौ
स्वमठिकां तृणैश्छादयित्वोपरिष्टाद्दोरिकां बध्नानोधोमस्तकेन पतितो
भृशं पीडितश्च । वपुषि व्रणान्यपि जातानि । ततस्तं पीडितं भाषणाय
लोक आगच्छति पृच्छति च । भोः किं जातं । कथं च पीडितः ।
स मूर्ख उत्थाय तथा कृत्वा लोकानां दर्शयति । एवं पतितः पीडि-
तश्च । एवं प्रतिजनं तथा कुर्वाणस्तथा पीडितो यथोत्थातुमपि न
शक्नोति । पुनर्लोकपृच्छायां कथयति । भवतां जनको दर्शयिष्यति ।
अतः परं लोकस्तं हसन् स्वस्थाने जगाम ॥ इति षष्टी कथा ॥ ६ ॥
मूर्खशिष्यो न कर्तव्यो गुरुणा सुखमिच्छता ।
विडंबयति सोत्यंतं यथा वटकभक्षकः ॥ १ 11
कटेरकग्रामे लुंठको जटी । तस्य कुंठको नाम शिष्योतिमूर्खो
भक्षकश्चास्ति । स एकदा यजमानगृहे कस्मिन्नप्युत्सवे जायमाने द्वात्रिं-
शद्वटकानि भिक्षायां लब्धवान् । ततः स मठिकामागच्छन्नंतराले बुभु-
क्षापीडितश्च चिंतयति । इयतां वटकानां मध्ये गुरुर्मह्यं स्वार्धं दा-
स्वति । तर्हि संप्रत्येवाहमात्मीयमर्धं भक्षयामीति षोडश वटकानि
भक्षितानि । पुनर्विचारयति । इयतामप्यर्धं दास्यति गुरुरिति स्वा-
र्धमष्टरूपं भक्षयामीति अष्टौ भक्षितवानिति । तावद्वटकार्धं लात्वा
खगुरोः पार्श्वे शिष्यो मुमोच । गुरुणोक्तं । भो: किमिदं । भवतो
यजमानेन ........ वटकान्येव दत्तानि । परं मया भक्षितानि ।
गुरुणोक्तं । कथं । ततः स शिष्य: शेषमर्धमपि गुरोः पश्यत एव
मुखे क्षिप्त्वा कथयति । मयैवं भक्षितानि । गुरुः स्वयमेव बुभुक्षित
एव स्थितः । लोकानां तज्ज्ञाने विस्मय : ॥ इति सप्तमी कथा ॥ ७ ॥