2023-03-28 12:11:55 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
न्निरूप्य कामपीडितो विस्मृतभोजनरसश्चिंतयितुमारब्धः । यथा ।
मनुष्यमध्य एवंविधा अपि रूपपात्रस्त्रियो भवंति यदि तदा स्वर्गे
किमस्ति । तपस इदमेव मुख्यं फलं । यतः ।
त्वं प्रिया चेच्चकोराक्षि स्वर्गलोकसुखेन किं ।
त्वं प्रिया यदि न स्या मे स्वर्गलोकसुखेन किं ॥ १ 7
हरिहरचंद्रसूर्यादीनां च यथा रसस्वीकराणामपि देवत्वं यथा
च वसिष्टगौतमादीनां सजायानामपि ऋषित्वं च न विरुद्धं तथा
ममाप्यनया सह ऋषित्वमस्तु । मार्गिता त्वियं व्यवहारिणा सर्वथा
न दास्यते । गृहीता तु विलोक्यत एव । अतो मायैव श्रेयसी । तां
विना क्वापि कार्यसिद्धिर्न भवति । इति तां कर्तुं प्रवृत्तः । निःश्वस्य
तद्ग्रहणध्यानलीनस्य भोजनादि विस्मृतं । शून्यचित्त इव स्थितः । श्रेष्टिना
पृष्टः । कुतोकस्माद्भवद्भिरार्तध्यानपरैर्न भुज्यते । स मायया वक्ति ।
भोः श्रेष्टिन् किं भुज्यते यस्य यजमानस्य गृह ईदृशी कुलक्षयका-
रिणी कुलक्षणा कन्यास्ति । तेन संप्रत्येतस्याः कुलक्षणदर्शनेन मम
भोजनं विषप्रायं जातं । जानामि संप्रत्येवोत्थाय यामि । ततः श्रेष्टि-
नोक्तं । गुरो अस्यां जातायामस्माकं कुलं सर्वप्रकारैर्वृद्धि प्राप्तं । भव-
द्भिर्ज्ञानिभिस्त्वेवं विरुद्धं कथं कथ्यते । पुनः स वक्ति । तावतैव
तव कुलवृद्धिर्यावता पाणिग्रहणं न भविष्यति । तदनु च तव कुलस्य
श्वशुरकुलस्य च क्षयकारी भविष्यति । ततः श्रेष्टी मूढचित्तः पुरापि
तद्वचनप्रत्ययाद्भयभ्रांतो वक्ति । अत्र भवंत एव सर्वज्ञा अस्मत्कुलगुरव
उचितोपदेशं ददतु किं कर्तव्यमिति । ततः स वक्ति । मम तपोध-
नस्य ब्रह्मचारिणोनया वार्त्तयापि कि कार्यं । ततः श्रेष्टिनात्वादरेण
पादयोर्लगित्वा पृष्टः स वक्ति । मया कथयिष्यते कोप्युपायः परं भव-
द्भिर्न करिष्यते । श्रेष्टिनोक्तं । किमेवं कथ्यते । भवतां सदापि हितानां
वचनं कथं न प्रमाणीक्रियते । इत्यादि दृढं तर्जयित्वा प्रोक्तं । श्रेष्टिन्
तर्हि शृणूपायं । सालंकारां चंदनकर्पूरादिचर्चितांगीं सुवसनामेनां
काष्टमंजूषामध्ये क्षिप्त्वा गंगामध्ये निवाह्यते कृष्णचतुर्दशीदिने पा-
श्चात्यरात्रौ गृहे च होम: कार्यते । एवं च कृते परगृह एवानर्थदा
भविष्यति न भवत्कुले । तद्दिनोपरि सर्वां सामग्रीं कारयित्वा स जटी
स्वमठ्यामागत्य शिष्याणामग्रे वक्ति । भो: शिष्या: कृष्णचतुर्दशी दिने