This page has been fully proofread once and needs a second look.



यतस्त्वया स्वयमेव द्रव्यलोभेन गृहे क्षिप्त्वा मारितो भविष्यति ।
मदग्रे तु सुधारावं कुरुषे । अन्यथा कोपि कस्यापि भार्यां मार्ग-
यति । इति त्वमेव दंडार्हः । ततो राज्ञा स्वसेवका: प्रोक्ता: ।
भो भो भटाः एनं श्रेष्ट्यपसदं पापिष्टं तपस्विहत्याकारकं बघ्नीध्वं ।
एतदीयं सर्वं गृहसारमत्रानीयतां । ततः श्रेष्टी खिन्नश्चिन्तयति । अहो
ममैतैरेव प्राक् तथा प्रोक्तं । संप्रति तु विपरीतं भाषते स्वार्थनिष्टाः
परविघ्नसंतोषिणः । सर्वोपि लोकः स्वकार्यकारी सम एव सहायो
न तु विषमकार्ये । यतः ।
 
वाङ्मात्रमैत्रीमधुरो जनीयं । न मूढकार्ये घटते सहाय: ।
अनन्यसाध्यां जठरस्य याचां । साद्धुं जने वासमुशंति धीराः॥ १ 4
 
ततः श्रेष्टिना राजाग्रे प्रोक्तं । भोः स्वामिन् क्षणं प्रतीक्षध्वं ।
एकशो गृहे गत्वा सम्यग्विलोकयामि । कदाचिद्यदि जीवन्भवति तदा
मानयित्वोत्थापयामि । मया तु श्वसन्मुक्तोभूत् । ततः श्रेष्टिनान-
न्यगतिकत्वेन गृहे समेत्य पादयोर्लयित्वा सविनयवचनैः स भौतिक
उत्थापितः । प्रोक्तं च । भो गृहाण मद्भार्यां सारालंकारभूषितां
भोजनं च कुरु । अन्यदपि द्रव्यादि गृहाण । तदा तदीयविनयव-
चनामृततृप्तो भौतिक उत्थाय श्रेष्टिनमवादीत् । भो मम सर्वथा
स्त्रिया द्रव्येण च किमपि कार्यं नास्ति । अहं ब्रह्मचारी निरीहो
भैक्षभोजी भवद्वचनादेव दूनो हठादुपविष्ट: । ततो भोजनं कृत्वा स
स्वस्थाने गतः । श्रेष्टिन आनंदः । राजादयो रंजितास्तद्बुद्धिविभवेन ॥
इति प्रथमा कथा ॥ १ ॥
 
कोपि स्वप्नोपलव्धेर्थे प्रवर्तेत नरो जड़ः ।
पक्वान्नसंभृतमठीस्वप्नद्रष्टा यथा जटी ॥ १ 5
 
नंदिग्रामे दुर्मतिनामा भरटको वसति सर्वलोकेभ्यो भोजनाजीवी ।
स एकदा शरदि कस्यापि कौटुंबिकस्य गृहे भिक्षार्थं गतः । तेन गृह-
स्वामिना माहिषं सुशीतलं पिंडरूपं दधि यथेष्टं दत्तं । तेन हृष्टेन
मठिकामागत्य कंठलौल्याद्दधि भुक्तं । तद्वशान्निशि तस्य निद्रा भृश-
मागता । ततो निद्रामध्ये स्वप्नं पश्यति । यथा । मभैषा मठी
सर्वापि विविधपक्वान्नखाद्यपेयादिरसवती परिपूर्णास्तीत्यादि । ततो
जागरूकः संश्चिंतयति । ममैषा मठी सर्वापि भोज्यपूर्णास्ति । अह-