2023-02-27 22:42:39 by ambuda-bot
This page has not been fully proofread.
भल्लट शतकम्
४३
यहाँ आपाततः सद्वृक्ष की निन्दा प्रतीत हो रही है जोकि अन्त में स्तुति
में परिणत हो जाती है अत एव व्याजस्तुति अलङ्कार है। यहाँ प्रस्तुत वाच्य
सद्वृक्षवृत्तान्त से प्रस्तुत व्यङ्ग्य स्वार्थहीन परोपकारशील व्यक्ति की प्रतीति
होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
O, gentle tree ! why were you born on a square ? Why did
you possess dense shades ? Endowed with shades why did you
bear fruits and then why did you bend down? Thus owing to
your own faults now you have to suffer when people are pulling
down, shaking, bending and breaking your tuftlike branches.
सन्मूलः प्रथितोन्नतिर्घनलसत्छायः स्थितः सत्पथे
सेव्य: सद्भिरितीदमाकलयता तालोऽध्वगेनाश्रितः ।
पुंसः शक्तिरियत्यसौ तु फलेद' द्याथवा श्वोऽथवा
काले क्वाप्यथवा कदाचिदथवा न त्वेव वेधाः प्रभुः ॥ ३८॥
सन्मूलः, प्रथितोन्नतिः, घनलसत्छायः, सत्पथे स्थितः, सद्भिः सेव्य
इति इदम् आकलयता अध्वगेन ताल: आश्रितः । पुंसः इयती शक्तिः ।
असौ अद्य फलेत् अथवा श्वः फलेत् क्वापि (सन्निकृष्टे) काले अथवा
कदाचित् (विप्रकृष्टे काले ) फलेत् (इत्यत्र) वेधा तु न प्रभुः एव ।
सत्प्रभुसेवायामपि फलं दैवायत्तमेवेत्याह – सन्मूलः प्रथितोन्नतीति । सता
प्रशस्तेन मूलेन कुलेन प्रथिता प्रसिद्धा उन्नतिरुच्छ्रायः । अन्यत्र प्रसिद्धञ्च यस्य
सः तथोक्तः । घनतरा अतिभूयसी छायाऽनातपः कान्तिश्च यस्य स तथोक्तः ।
सत्पथे जनसंचारभूयिष्ठे सदाचारमार्गे च स्थितः । अत एव सद्भिविद्यमानैश्च
सेव्य आश्रयरणीय इतीदमाकलयता विचारयता अध्वगेन पान्थेन तालस्तालतरु-
राश्रितः सेवितः । इयती एतावती । असौ शक्तिः पुंसः पुरुषस्य सम्बन्धिनी । स तु
वृक्षः पुमांश्च प्रतीयते । अद्यैव फलेत् फलितो भवेत् । अथवा श्वः परेऽहनि फलेत् ।
अथवा क्वापि संनिकृष्टे काले फलेत् । अथवा वा शब्दः पक्षान्तरे । कदाचित्
विप्रकृष्टे काले वा फलेत् । इत्यत्र फलपरिज्ञाने वेधास्तु ब्रह्मापि न प्रभुर्न समर्थः ।
ब्रह्मापि फलकालं न ज्ञातुं शक्नोतीत्यर्थः । कुलशीलौदार्यादिगुरणवतः प्रभवः
सेव्याः सेविता अपि कदा वा दद्युरिति न ज्ञातुं शक्यत इति भावः ।
1. ह्; स तु फलत्य० म; सफलता अ, क
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri