2023-02-27 22:42:38 by ambuda-bot
This page has not been fully proofread.
૪૨
भल्लट शतकम्
कि जातोऽसि चतुष्पये घनतरछायोऽसि कि छायया
संयुक्त फलितोऽसि कि फलभरैः पूर्णोऽसि किं सन्नतः ।
हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षरण-
क्षोभामोटनभञ्जनानि जनत: ' स्वैरेव दुश्चेष्टितैः ॥ ३७॥
हे सद्वृक्ष ! चतुष्पये कि जातः असि ? घनतरछायः किम् असि ?
छायया कि संयुक्त: (असि ) ? फलभरैः किं फलितः असि ? पूर्ण: (सन् )
सन्नतः किम् असि ? हे सखे सम्प्रति स्वैरेव दुश्चेष्टित: जनतः शाखा-
शिखाकर्षरणक्षोभामोटनभञ्जनानि सुतरां सहस्व ।
-
परोपकारशीलस्य तदनुषङ्गापतितव्यसनतासहत्वे यशः प्रभृतिहेतुरित्याह
कि जात इति । सखे प्रारणसम हे सद्वृक्ष ! यदाहुः - समप्रारणः सखा मतः इति ।
सुजनोऽपि प्रतीयते । चतुष्पथे चतुर्मार्गसमाहारे । कि कि कारणं जातोऽसि । अत्र
चतुष्पथशब्देन जननी जनकयोर्मातापितरौ लक्ष्येते । कि कारणं घनतरा बह्वी
छायाऽनातपः कान्तिश्च यस्य स तथोक्तोऽसि । छायासन्नद्धः सहितः सन् कि
फलितः सञ्जातफलोऽसि । तैः फलभरैः पूर्णोऽसि । अन्यत्र घनचर्यश्च प्रवृद्धो
भवसि । अथ कि सन्नतोऽसि नम्रोऽसि । अन्यत्र विनीतोऽसि । सम्प्रतीदानीं
स्वैः स्वकीयै र्दुश्चेष्टितैरिति सोल्लुण्ठनं वचनम् । जनतो जनात् सकाशात् ।
शाखानां शिफा जटा अथवा शाखाशिखाव्रातानां शाखाग्राणाम् । आकर्षणम्
क्षोभः प्रकम्पनमामोटनं छेदनं भञ्जनं मर्दनं चेत्येतानि सहस्व तितिक्षस्व । स्वयं
कृतापराधापतितव्यसनेषु सहनमेव प्रतीकार इत्यर्थः । याचका हि गुणिनो
दातुश्चेलाञ्चलं गृहीत्वा आकर्षादिचेष्टां कुर्वन्तीति भावः ।
-
अरे भले वृक्ष ! तुम चौराहे पर क्यों उत्पन्न हुए १ बहुत अधिक धनी
छाया वाले क्यों हुए ? यदि छायायुक्त थे तो फिर फले क्यों ? फलयुक्त होने पर
विनम्र क्यों हुए ? बपने बुरे कर्मों के फलस्वरूप लोगों द्वारा शाखारूपी
चोटी के खींचे जाने, हिलाने, तथा मरोड़े तोड़े जाने का कष्ट सहो ।
1. म; युक्तश्चेत् क; सन्नद्धः अ, ह
2.
भ, म, ह; आढघोऽपि क
3.
4.
5.
अ, क; सच्चूत म', ह
अ, क, म;
2...
अ; सुतरां क; सफलं ह; भवतः म
नादि ह
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri