This page has not been fully proofread.

३०
 
भल्लटशत कम्
 
न पङ्कादुदुभूतिर्न जल' सहवासव्यसनिता
वपुदिग्धं कान्त्या स्थलनलिन'रत्नद्युतिमुषा ।
व्यघास्यद् दुर्वेधा हृदयलघिमानं यदि न ते
 
त्वमेवैको लक्ष्म्याः परममभविष्यः पदमिह ॥ २६ ॥
 
(हे) स्थलनलिन ! न (ते) पकात् उद्भूतिः, न (ते) जलसहवास-
व्यसनिता, वपुः (च ते) रत्नद्युतिमुषा कान्त्या दिग्धम् । दुर्वेधा यदि ते
हृदयलघिमानं न व्यधास्यत् (तर्हि) एकः त्वमेव इह लक्ष्म्याः परमं
पदमभविष्यः ।
 
टीकाकर्त्रा महेश्वरेण एष इलोको न व्याख्यातः । उपरिलिखितः श्लोकः
अयं च श्लोकः संस्कृत-टीकायां नोपलभ्येते परमिमौ मूलपाठे तु उपलभ्येते ।
अस्मदीया संस्कृतटीका – स्वजनद्वेषी सङ्कीर्णहृदय अनुदारपुरुषः सत्कुलो-
त्पत्तिप्रतिभातेजस्वितादिगुणानपि प्राप्य विजयश्रियं प्रचुरसम्पदं वा प्राप्तुं न
शक्नोति इत्याह – न पाभूतिरिति । हे स्थलारविन्द स्थलकमल गुलाब
इति हिन्दीभाषायाम् । पकात् कर्दमात् अन्यत्र नीचकुलात् । उद्भूति उत्पत्ति-
र्जन्म वा। जलसहवासव्यसनिता जलानां वारीणां सहवासस्य निवासस्य
व्यसनिता व्यसनम् अन्यत्र जडानां मूर्खाणां सहवासस्य सङ्गते र्व्यसनं दोषः ।
रत्नद्युतिमुषा कान्त्या अतिदीप्रया कान्त्या भास्वरं शरीरम् विधते । दुर्वेघा
मूर्खो विधाता स्रष्टा प्रजापतिर्वेधा इत्यमरः । हृदयलघिमानं मध्यभागस्य
लघ्वाकारं स्थलपद्मघत्ते अन्यत्र हृदयस्य अनुदारत्वमदाक्षिण्यम् । लक्ष्म्याः परमं
पदमभविष्यः पद्मश्रियः भाजनं स्थलकमलम् लक्ष्म्या भाजनं च त्वमभविष्यः ।
त्वं यदि दा विशालहृदयताञ्च अग्रहिष्यः तर्हि सुहृदां सहयोगिनां साहाय्यं
प्राप्य नाढयो विजयी चाभविष्यः इत्याशयः ।
 
हे स्थलकमल ! तुम न तो कीचड़ से जन्मे हो, न ही जड़ (पानी तथा
मूर्ख) के संग का दोष तुम में है। तुम्हारा शरीर भी रत्न की कान्ति के समान
लाल कान्ति से देदीप्यमान है । यदि दुष्ट विधाता तुम्हारा दिल छोटा न बनाता
तो केवल तुम्हीं लक्ष्मी का परम स्थान होते ।
 
अ, मह; जढ क
 
1.
2. अ, म, ह; दृश्यम् क
 
भ, म', ह; स्थलकमल क
 
3.
 
4. अ, म', ह, मेकं क
 
-
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri