This page has not been fully proofread.

भल्लटशतकम्
 
more? O black bee! you have still decided thus to serve this
elephant with an empty trunk (hand), O brother, why this
( peculiar type of) obstinacy ?
 
तद्वैदग्ध्यं
 
समुचितपयस्तोयतत्त्वं
 
विवेक्तुं
 
संलापास्ते स च मृदुपदन्यासहृद्यो विलासः ।
आस्तां तावद् बक यदि तथा वेत्थि किंचिच्छलथांस-
स्तूष्णीमेवासितुमपि सखे त्वं कथं मे' न हंसः ॥२०॥
 
समुचितपयस्तोयतत्त्वं विवेक्तुं तद् वैदग्ध्यम्, ते संलापाः स च
मृदुपदन्यासहृद्यो विलास: । हे बक ! आस्तां तावत् । यदि किञ्चिच्छ्ल-
थांसः तथा तूष्णीम् एव असितुं वेत्थि ( तर्हि) त्वं मे कथं न हंसः
(भवे:) ?
 
सुजनस्यैव
 
सदसद्विवेचनमधुरालापनैर्भूत्यादिगुणगणसद्भावेन रन्ध्रान्वे-
पणविहीनतया च दुर्जनस्तमनुकतुं समर्थो न भवतीत्याह—तद्वैदग्ध्यमिति ।
समुचितपयस्तोयतत्त्वं विवेक्तुं वैदग्ध्यं तत्सम्मिश्रितयोर्दुग्धजलयोस्तत्त्वमिदं क्षीर-
मिदं जलमिति सद्भावं पृथक्कर्त्तं सामर्थ्य तथाविधम् । संलापास्ते मधुरालापा-
स्तथाविधाः । मृदुपदन्यासहृद्यो विलासश्च । यो मन्दचरणविक्षेपमधुरो विलासः ।
पक्षिणां गगनोड्डयनं च तथाविधम् । इत्थं हंसस्य गुणयोगा भवन्ति । एतत्सर्वं
तावदास्ताम् । इदं पूर्वोक्तगुणपञ्जरमिदानीं तिष्ठतु । हे हंस ! किञ्चित्
इलथांसं स्वल्पशिथिलितांसं यथा तथा हंसवद्रन्ध्र वीक्ष्य परपीडामकृत्वा तूष्णी-
मेवासितुमासनमपि कर्तुं परपीडामचिन्तयित्वा केवलासिकामेव विधातुं वेत्सि
यदि सखे त्वं मे कथं न हंसो भवसि । न कदाचित् भवता रन्ध्र परव्यसनं
विधाय हंसवज्जोषमेवावस्थातुं शक्यते चेद्धंसो भवसि । नो चेत् हंसत्वं श्रेष्ठत्वं
च तव न सम्भवति । बक इव कपटशील एव भवतीति ।
 
दूध और पानी को ठीक रीति से अलग करने की वह चतुराई, वे (मीठे)
वचन और वह कोमल कदमों वाली मनोहर चाल, अरे बगुले ! वह सब रहने
दो । बस यदि तुम केवल कंधे ढीले करके चुप बैठना ही सीख लो तो मेरे लिए
हंस ही क्यों नहीं हो जायोगे ?
 
1. ह, म, क; वा अ ।
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri