This page has not been fully proofread.

भल्लटशतकम्
 
would not be able to do anything when it is day which obstructs
even the moon with the rays of the sun (as such, you would
become insignificant now).
 
१८
 
सत्त्वान्तःस्फुरिताय' वा कृतगुरगाध्यारोपतुच्छाय वा
तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।
यच्छायाच्छुरणा'रुणेन खचता खद्योतनाम्नामुना
कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ १६॥
 

 
सत्त्वान्तः स्फुरिताय वा कृतगुरसाध्यारोपतुच्छाय वा, कातरमोहनाय
महसो लेशाय तस्मै ( ज्ञानलवदुविदग्धाय) स्वस्ति मा भूत् । यत् छाया
कुरणारुणेन खचता प्रमुना खद्योतनाम्ना कीटेन हितया जङ्गममरिण -
भ्रान्त्या हि (वयं ) विडम्व्यामहे ।
 
यस्तु निर्मूलेन पल्लवग्राहिरणा श्रुतेन स्वल्पेनाविर्भावमात्रेण सञ्जातलेपः वर्तते
तमुद्दिश्याह – सत्त्वान्तः स्फुरितायेति । सत्त्वं सद्भावमात्रं तत्प्रमारणस्य स्वल्प-
शरीरस्यान्तर्मनसि स्फुरितया विततसम्भावनया समुच्चयार्थे कृतगुरणाध्या-
रोपतुच्छाय कृतो गुरणानामध्यारोपः स्वतः सिद्धत्वाभावात् प्रसह्य समायोजनं तेन
तुच्छाय लघुभूताय । वा शब्दः पूर्ववत् । अत एव कातराणां प्राकृतानां मोहनाय
मोहनकराय महसो लेशाय तेजसो लवाय वा यत्स्वस्ति तत् सद्भावो माभूत् ।
यस्य तेजसो लवस्य छाया दीप्तिस्तस्याश्च्छुर रोनारुणेन रक्तेन खचता स्फुरता
खद्योतनाम्नामुना कोटेनाहितया कृतया जङ्गममणिभ्रान्त्या बुद्धिमोहेन वयं
विडम्बामहे । वयमिति वाक्यशेषः । अयमर्थः । सत्त्वेन सद्भावेनान्तः स्फुरित
मथवा कृतगुणाध्यारोपतुच्छं वा यन्महस्तस्यापि यो लेशः । कातरान् मोहयति ।
तस्य सद्भावो मा भूत् । तथाविधस्य तेजोलेशस्य नाश एव भवतु । यस्य
तेजोव्यतिकरलोहितः स्फुरन्नयं खद्योतनामा कृमिरस्माकमपि जङ्गमरत्ने
उद्भ्रान्तिं विडम्बनं करोतीति ।
 

 
ज्ञान की सत्तामात्र से ज्ञान से प्रकाशित अन्तःकरण वाले
 
1. ह, म?, घ, क; सत्यान्तः म
 
2. क; छुरिता ह, म, अ
 
3. ह, म1 क; खचिता अ
4. ह, अ क; पिम
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri