This page has not been fully proofread.

१२३
 
भल्लटशतकम्
 
विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं
शुकस्यासीद् बुद्धिः फलमपि भवेदस्य सदृशम्' ।
चिरासीनं तस्मिंश्च फलमपि दैवात् परिणतं
 
विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥१०१॥
 
शाल्मल्याः नयनसुभगं विशालं कुसुमं वीक्ष्यस्य फलम् अपि
(कुसुम) सदृशं भवेत् (इति) शुकस्य बुद्धिः आसीत् । तस्मिन् (तेन)
चिरासीनम्, दैवात् च फलम् अपि परिगतम् । (परन्तु) विपाके अन्तः
तूल : (सञ्जातः) सः अपि मरुता अपहृतः ।
 
प्रभूतमर्थं दास्यतीत्ति बुद्ध्यार्थी सिषेवे । सोऽपि बहुकालेनासारं किञ्चिद्-
ददौ । तदपि दुष्टपुरोहितादिभिरपह्रियत इत्येतन्मनसि कृत्वाह - विशालमिति ।
नयनसुभगं नयनयो दृशोः सुभगं रमणीयं विशालं महच्छाल्मल्याः पिच्छिलायाः
पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलि योरित्यमरः । कुसुमं वीक्ष्य अस्य
कुसुमस्य सदृशमनुगुणं फलमन्यत्र धर्मादिलाभश्च भवेदिति बुद्धिः समुत्पन्ना
सञ्जाता । विशिष्टेन कारणेन कार्यानुमानस्योचितत्वादिति भावः । इत्येवं
ध्यात्वा विचार्य उपास्तं सेवितं । उपपूर्वादासे भवे क्तः । फलमपि दैवाददृष्ट-
वशतः परिणतं सञ्जातम् । ततो विपाके पक्वावस्थायामन्तः फलाभ्यन्तरे
तूलः पिचुरेव सञ्जातः । तूलः पिचौ भवेत्तूलं ब्रह्मदारुविहायसोरिति विश्व-
प्रकाशः । सोऽपि तूलः सपदि तत्क्षणमेव मरुता वायुना अपहृतः । सत्यामपि
दृष्ट कारणसामग्र चायामदृष्ट कारणाभावे खलु न कार्यस्योत्पत्तिरिति भावः ।
 
सेमर के वृक्ष के नेत्रों को सुख देने वाले बड़े फूल को देखकर – इसका
फल भी (पुष्प) जैसा ही (सुन्दर) होगा (इस प्रकार का) तोते (के मन) के
भीतर विचार (उत्पन्न) हुआ। उस (पेड़) पर तोता देर तक ( यही आशा
रखकर ) रहता रहा । और भाग्यवश फल भी पक गया। पकने पर (उसके)
भीतर रूई निकली और वह भी वायु ने तुरन्त ही (उड़ाकर) छीन ली ।
 
यहाँ प्रस्तुत वाच्य शाल्मलि वृक्ष की कुसुमानुरूप फलप्राप्ति में प्रासत्ति
रखने वाले शुक के वृत्तान्त से कंजूस धनी दाता से धन की प्राशा रखकर भी
धन न पाने वाले व्यक्ति के वृत्तान्त की प्रतीति होने से प्रप्रस्तुतप्रशंसा
 
1. क, ह; कुसुमसदृशं तत्फलमिति अ, म
 
2. अ, ह; चिरं ध्यात्वोपास्तं म; इति ध्यात्वोपास्तं क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri