This page has not been fully proofread.

2000
 
भल्लटणतकम्
 
प्रारणा येन समर्पितास्तव बलाद् येनैवमुत्थापित:
स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यामपि ।
तस्यान्त: स्मितमात्रकेरण जनयञ्जीवापहारं क्षणाद्
भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥१८॥
 
११६
 
(हे) भ्रातः । येन तव प्राणा: समर्पिता:, येन एवं बलात् ( त्वम् )
उत्थापितः, येन ( त्वम्) चिरं स्कन्धे धृतः असि, यः ते सपर्याम् अपि
विदधे । अन्तः स्मितमात्रकेरण उपलक्षितः त्वं तस्य क्षरणात् जीवापंहारं
जनयन् प्रत्युपकारिणां धुरि परं वेताललीलायसे ।
 
नीचाः खलूपकर्तुरेवापकुर्वन्तीत्याह- प्राणा येनेति । हे भ्रातः सोदर !
भ्रातरिति सोल्लुण्ठनं वचनम् । येन सुजनेन प्रारणास्तव समर्पिता: । तुभ्यं प्रदत्ता
इत्यर्थः । तवेति सम्बोधनमात्रे षष्ठी । येन त्वं बलात् प्राबल्याद घेतोः । उत्था-
पितः आपद्भ्य उद्धृतोऽसि । येनैवं त्वं चिरं बहु कालं धृतोऽसि अन्नदानप्रदानेन
पोषितोऽसि । गतवी बुद्धिशून्यस्त्वं सुष्ठु भावमभ्यथितः । उन्मार्गे त्वया न
वर्तितव्यमिति समीचीनभावं प्रार्थितोऽसि । एवं बहूपकारिणस्तस्य स्मितमात्र
केण स्मितेनैव उपलक्षित: सन् क्षणादल्पेन कालेनैव अन्तर्मनसि जीवापहारं
प्रारणापहारं जनयन्नुत्पादयन् प्रारणापहरणोपायमेव चिन्तयन्नित्यर्थः । प्रत्युप-
कारिणां प्रत्युपकारवतां महात्मनां धुर्यग्रे परमत्यर्थं वेताललीलायसे पिशाच-
लीलामाचरसि । पिशाचा अप्यन्नपानादिदायिनमेव निघ्नन्ति तद्वत्त्वमपि
रक्षितारमपि निहंसीत्यर्थः । तत्करोति तदाचष्ट इति ण्यन्ताल्लट् । णिचश्चेत्या-
त्मनेपदम् । अथवा वेतालेति भिन्नं पदम् । अथवा वेतालपिशाचसदृशः पिशाच
इव विगत विवेकत्वेन पुरुषोऽपि पिशाच इति उच्यते । लीलां विनोदं करोषि
लीलायसे । पर प्राणापहरणमेवासाधूनां विनाभोगोऽधिकारः । सत्यां कर्म-
विभक्तौ च सप्तमी तत्र सम्मतेति । भोजराजवचनाद् द्वितीयार्थे सप्तमी ।
 
जिस (उपकारी) ने तुम्हारे भीतर प्राण डाले हैं; जिसने इस भाँति बलपूर्वक
तुम्हें (ऊपर) उठाया है और देर तक कन्धे पर (भी) बैठाया है तथा जो तुम्हारा
दरसत्कार भी करता है (इस प्रकार ) उस (उपकर्ता) के अपने (मन के)
भीतर मुस्कराहट से भरे होकर क्षण भर में प्राणापहरण को पैदा करते हुए
 
1. क; त्वं येर्नव अ, ह; स्कन्धेनैव म
 
2. क; हृतक: सम्यक्त्वमभ्यथितः गतधीर्येन त्वमभ्यथितः म; गतधी: सम्यक त्वमभ्य-
थितः अ, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri