This page has not been fully proofread.

भल्लटात कम्
 
वृत्तान्त की प्रतीति होने से अप्रस्तुतप्रशंसा है ।
 
All this is the play of a snake-charmer that a frog without
any fear has raised its hand harshly with anger to slap on the
face of a black cobra and the cobra closing its eyes has stood
with a lowered face.
 
११३
 
मृत्योरास्यमिवाततं धनुरिदं चाशीविषाभा: शरा:
शिक्षा सोपि जितार्जुन' प्रभृतिका सर्वत्र निम्ना गतिः ।
अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम् ॥१४॥
 
अहो ! यथा अस्य शठस्य व्याधस्य मृत्योः आततम् आस्यम् इव
(आतम्) इदं धनुः, आशीविषाभाः च शराः, जितार्जुनप्रभृतिका सा
शिक्षा अपि, सर्वत्र निम्ना गतिः, अन्तः क्रौर्य, मुखे (च) हारि गेयम्
(विद्यन्ते) । हा तथा मन्ये इदं वनं निमृगं भविष्यति ।
 
बहिरापतितमघुरवचनोऽपि खलोऽन्तः काठिन्येन स्वजनानपि निहन्तीत्याह
- मृत्योरास्यमिवेति । शठस्य वरिणः । निकृतस्त्वनृजुश्शठ इत्यमरः । व्या-
धस्य मृगयोः स आततमारोपितज्यमिदं धनुः कार्मुकं मृत्योर्यमस्यास्यं मुखमिव
भयावहं भवति । इमे इषवो बाणा न भवन्ति आशीविषाः सर्पा: । सा
तथाविधा शिक्षा धनुविद्याभ्यासस्तु विजितार्जुनप्रभृतिका विजिता अर्जुनप्रभृतयो
धनञ्जयप्रमुखा यस्याः सा तथोक्ता । बहुव्रीहे: शेषाद्विभाषेति कप्रत्ययः । प्रभृति-
शब्देनात्र कर्णादयो गृह्यन्ते । स्थितिर्मालीदादिरूपो धन्विनामवस्थानविशेषः ।
सर्वत्र तत्तत्स्वरूपेषु निम्ना गभीरा निश्चलेत्यर्थः । अथवा गतिरिति पाठः । तत्र
गतिः संचार: । निम्ना अन्तर्हिता व्याधाः खल्वटव्यादिषु संचरन्तीति किंचान्त-
र्मनसि क्रौर्यं हिस्रत्वं वर्तते । मुखे मधुरं श्राव्यं हारि हृद्यम् । गेयं गीतम् । यथा
येन प्रकारेण वर्तते तथा तेनैव प्रकारेण वनमरण्यं निर्मृगं मृगशून्यं भविष्यतीति
मन्ये तर्कयामि । हा शब्दो विषादे । अहो आश्चर्यम् । अत्राधिज्यधनुर्धार-
गादिना विशिष्टेन कारणेन मृगहननाख्यं कार्यमनुमीयत इत्यनुमानालंकारः ।
 
1. क; नाशीविषा नेषव: अ, ह; चाशीविषाश्चेषवः म
 
2. भ, क, ह; सा विजितार्जुन म
 
३. अ, म, हु; निम्नाकृति; क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
1