This page has not been fully proofread.

भल्लटशतकम्
 
११२
 
भेकेन क्वरणता सरोषपरुषं यत्कृष्णसर्पानने,
दातुं गण्डचपेट' मुज्झित भिया हस्त: समुल्लासितः ।
यच्चाधोमुखमक्षिणी पिदधता नागेन तत्र स्थितं
 
तत्सर्वं विषमन्त्रिरणो भगवतः कस्यापि लीलायितम् ॥१३॥
 
उज्झितभिया सरोषपरुषं क्वरगता भेकेन कृष्णसर्पानने यत् गण्ड-
चपेटं दातुं हस्तः समुल्लासितः, यच्च अक्षिणी पिदधता नागेन तत्र
अधोमुखं स्थितम्, तत् सर्वं कस्य अपि भगवतः विषमन्त्रिणः
लीलायितम् ।
 
यो महदपि कार्यं स्वल्पेनैव साधनेन साधयति स एव बलीयानित्याह-
भेकेनेति । उज्झितभिया गारुडिकवलात् त्यक्तभयेन । अत एव सरोषपरुषं
सकोपम् अत एव निष्ठुरं च यथा तथा क्वरणता ध्वनता भेकेन मण्डूकेन प्रयोज्येन
कृष्णसर्पस्य कृष्णोरगस्य आने मुखे कर्णयोश्चपेटं ताडनं दातुं कृष्णसर्पान्
ताडयितुम् इत्यर्थः । हस्तः कर: समुल्लासितः समुत्क्षेपित इति यावत् । नागेन
पन्नगेन सर्पेण इति यावत् । नागः पन्नगमातङ्गक्रूराचा रेषुतोयदा इति विश्व-
प्रकाशः । तत्र गिरि गह्वरादौ । अक्षिणी चक्षुषी पिदधता निमीलता सता अधो-
मुखमाकुंचितम् आननं यथा तथा स्थितं स्थीयते स्म इति यावत् । स्थितमिति
तिष्ठतेर्भाव क्तप्रत्ययः । तदेत्सर्वं भगवतो अवार्यवीर्यस्य कस्यापि विषमन्त्रिणो
गारुडिकस्य लीलायितं विलसितम् । बलिनो न किमप्यशक्यमस्तीति भावः ।
यदा यो राजात्यल्पेन महतोऽभिभवं कारयति तदास्यावसरः ।
 
निडर होकर क्रोधपूर्वक कर्कश आवाज करते हुए मेंढक ने जो काले साँप
के मुँह पर गण्डचपेट ( गालों के ऊपर चाँटा) लगाने के लिए अपना हाथ
उठा लिया और जो (वह) नाग वहाँ आँखें बन्द करते हुए मुँह नीचा करके
बैठा रहा वह सब किसी तेजस्वी (शक्तिशाली) विषमन्त्र के जानकार (विषवैद्य)
का खेला हुआ खेल है।
 
यहाँ प्रस्तुत वाच्य मेंढक और सर्प के वृत्तान्त से प्रस्तुत व्यङ्ग्य बड़े
स्वामी का संरक्षण पाये हुए क्षुद्र सेवक द्वारा अभिभवप्राप्त मनस्वी पुरुष के
 
1. क; कणंचपेटम् अ, म, म, ह
 
2. म', म; विदधता अ, क, ह
 
३. ह; चपेटनं म
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
C
 
T