This page has not been fully proofread.

भल्लटशतकम्
 
तिष्ठति नान्यत्रेत्येवकारार्थः । अहो आश्चर्यम् । अस्य हंसस्य मतिर्बुद्धिः श्रियो
लक्ष्म्या: धाम्नि निवासभूते पद्मे सरसिजे । क्वचित् कदाचित् मनागीषदपि न
धावति न प्रसरति । तस्मात् सन्तोषपक्षः सन्तोषोऽलं बुद्धिः । स एव पक्षो
बलम् । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु इत्यमरः । कियान् प्रभूत इत्यर्थः ।
बत बतशब्दोऽत्र विस्मये । हंसो हि विशुद्धस्थानस्थितत्वात् सन्तुष्टत्वाच्च मान्य-
मुपयातीत्यर्थः । उदरम्प्रियाः कुक्षिम्भरयः । मधुलिहो भ्रमराः । दुष्टा अपि
प्रतीयन्ते । अयं पद्मः सुप्तो मुकुलितः अन्यत्र निद्रित इत्यर्थः । अद्यापीदानीमपि
न बुध्यते न विकसति । अन्यत्र न निद्रां जहातीत्यर्थः । बुध्यतेर्देवादिकत्वात्
कर्तरि लट् । तस्मात् कारणात् । इतरानन्यतरांल्लोभात् । प्रबोधकालं तावत्सा-
कल्येन प्रतीक्षामहे द्रक्ष्यामह इति क्षणं व्यापाराभावेनावस्थानं तितिक्षितुं
क्षमाः शक्ता न भवन्ति । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः इत्यमरः ।
पद्मप्रबोधपर्यन्तं पुष्पान्तरेष्वासज्जतीत्यर्थः एतदुक्तं भवति । नैस्पृह्यबलेनान्येन
सेवन्ते इतरे तू लोभातिशयेन खलानपि नैरन्तर्येण सेवन्त इति ।
 
१११
 
(वह) यहीं सरोवर में ही रहता है। अरे आश्चर्य है । कितना (अधिक
इस हंस ने) सन्तोषचल पाया हुआ है। इस हंस का मन कहीं लक्ष्मी के
निवासस्थान कमल (तक) की ओर नहीं भागता है। (किन्तु) सोया हुआ यह
कमल ग्रभी नहीं जाग रहा है अर्थात् नहीं खिला है तो तब तक दूसरों की
ओर देख लेते हैं— ऐसा (सोचकर) ये पेट के प्यारे (पेटू) भँवरे क्षण भर की
देरी को भी सहन करने में असमर्थ हैं ।
 
यहाँ श्रीधाम्नि, सुप्तः एवं मधुलिहः पदों में श्लेष है। अप्रस्तुत वाच्य हंस-
मधुप वृत्तान्त से प्रस्तुत व्यङ्ग्य निःस्पृह तथा लोभी व्यक्ति के वृत्तान्त की
व्यञ्जना से प्रतीति हुई है अतः यहाँ श्लेषानुप्राणित प्रस्तुतप्रशंसा अलङ्कार
है।
 
He lives here in this very lake. How great is his content-
ment? The mind of this swan is not allured even by the lotus-
the abode of fortune. But the gluttonous bees, seeing that the
lotus is asleep and not awakened yet, are not ready to bear the
delay of a moment and decide to wait upon others.
 
1. ह; सरोजे म
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri