This page has not been fully proofread.

भल्लट शतकम्
 
१०६
 
quarters are overpowered by darkness but cannot shine when
the sun shines.
 
एतत्तस्य मुखात् कियत्कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जड: शृण्वन्यदस्मादपि ।
अङ्गुल्यग्र लघुक्रियाप्रविलयिन्यादीयमाने
कुत्रोड्डोय 'गतो ममेत्यनुदिनं' 'निद्राति नान्तःशुचा ॥११॥
 
4
 
शनै: *
 
स जड: कमलिनीपत्रे वारिणः करणं यत् मुक्तामणिः इति अमंस्त
एतत् तस्य मुखात् कियत् । अस्मात् अन्यत् अपि शृणु । (वारिकरणे )
शनैः श्रदीयमाने अङ्गल्यग्रलघुक्रिया प्रविलयिनि सति मम ( मरिण :)
कुत्र उड्डीय गतः इति अनुदिनम् अन्तःशुचा न निद्राति ।
 

 
अज्ञोक्तं समीचीनमिति यो मन्यते स एवाज्ञ इत्याह - एतत्तस्येति । यः
कमलिनीपत्रे नलिनीदले स्थितं पाथसो जलस्य कणं बिन्दुं मुक्तामणिरित्यमंस्त
मौक्तिकं मन्यते स्म । मन ज्ञान इत्यस्मात्कर्तरि लुङ् । मुक्तामणिरित्यत्रेति शब्देन
निपातेन मुक्तामणेरभिहितत्वादनभिहित इति द्वितीया न भवति । यदाह-
वामनः– निपातेनाप्यभिहिते न कर्मणि कर्मविभक्तिः । परिगणनस्य प्रायिक-
त्वादिति । स समन्ताज्जड : अज्ञ एव । तस्य जडस्य मुखात् सकाशात् कियत्
स्वल्पं यदेतन्मौक्तिकायतनं शृण्वन्नपि पुरुषः । तस्मात्पूर्वस्माज्जनात् जड एव
भवति । तदेवोपपादयति । ततोऽनन्तरमादीयमाने स्वक्रियमाणे तत्र जललवे
अङ्गुल्यग्रलघुक्रियाप्रलयिनि अङ्गुल्यग्रेण या लघुक्रिया मन्दस्पर्शः तया प्रविलयिनि
नश्वरे सति ममायं मुक्तामरिगरुड्डीय उत्प्लुत्य गतो विनष्ट इति । अन्तरशुचा
मनोदुःखेन हेतुना अनुदिनं प्रतिदिनम् । न निद्राति न स्वपिति । एतदुक्तम्-
जललवे मुक्तामणिभ्रान्तिमतो वचने प्रामाण्यबुद्ध्या तज्जिहीर्षुस्तदपायेन संताप-
माप्नुवन् जडतम इत्युक्त इति ।
 
-
 
कमलिनी के पत्ते पर स्थित पानी की बूँद को उस मूर्ख ने मोती समझ
 
1. अ; पाथसो क, ह; वारिणां म
 
2. अ, म, ह; यो क
 
3. अ, म1, ह; शृण्वन्नकस्मादपि क
 
4. अ, ततस् क, म, ह, पुनस् म
 
5. अ, क, म', ह; कुवोड्डीय संशोधित
 
6. अ, म), ह; त्यनुनिश क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri