2023-02-27 22:43:01 by ambuda-bot
This page has not been fully proofread.
१०६
भल्लटशतकम्
shining sun? The lustre existing within the vigorous persons
does not appear to be existing within them outwardly.
ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते
नन्वत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः ।
शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं
दैवादेति जड : स्वकुक्षिभृतये सोप्यम्बुधिनिम्नताम् ॥८६॥
4
(बुध) ग्रावारण: ( सन्ति अयं) त्रिजगत: विभूषणम्,
( अनेन ) मर्यादया स्थीयते । विधुः अत्र एव ननु स्थितः । (त्र) विबुधा:
हि सम्भूय पूर्णाशिष: ( अभूवन् श्रपि च ) इह स्वयं देवः उद्गत-
नाभिपद्मविलसदुब्रह्मा शेते । दैवात् एव स जड: अम्बुधिः अपि
स्वकुक्षिभृतये निम्नताम् एति ।
।
गुणवानपि सुजनो दारिद्रयदोषवशेन कदाचित् नीचकृत्ये प्रसज्जतीत्या-
ग्रावाण इति । अत्राम्बुधौ ग्रावाण: पाषाणा: रत्नानीति यावत् । त्रिजगतो
लोकत्रयस्य । पात्रादित्वात् ङोबभावः । विभूषणमलङ्कारो भवति । येन अम्बु-
घिना लोकस्य मर्यादया स्थीयते । लोकस्यावघीभूतस्य – तिष्ठतीत्यर्थः । तिष्ठते
र्भावे लट् । अत्र एव विधुश्चन्द्रः । अत्रैवाम्बुधौ स्थितः तिष्ठति । मतिबुद्धि-
पूजार्थेभ्यश्चेत्यत्र चकाराद् वर्तमाने क्तप्रत्ययः । अत्राम्बुधौ विबुधाः देवाः ।
अन्यत्र विद्वांसश्च । ज्ञातृवाग्मिसुरा बुधा इत्यमरः । सम्भूय सङ्घीभूय पूर्णाशिषः
पूर्णाः समृद्धाः आशिषः अमृतलाभादिरूपा मनोरथा येषां ते तथोक्ताः । प्रभूवन् ।
किञ्च । इहाम्बुधौ नाभिपद्मविलसद्ब्रह्मा नाभिपद्मे विलसन् विराजमानो ब्रह्मा
चतुर्मुखो यस्य स तथोक्तः । देवो विष्णुः । स्वयं शेते अनन्यप्रेरितः स्वपिति ।
एवं बहुगुरगाढघोऽपि जड: अज्ञप्रकृतिः । डलयोरभेदाज्जलरूपी च । स तथाविधो
अम्बुधिः समुद्रोऽपि स्वकुक्षिभृतये स्वोदरपूरणाय दैवात् अदृष्टवशात् निम्नतां
गर्तप्रदेशवर्तितां गम्भीरतां चैति प्राप्नोति । श्रदृष्टं केनापि दुनिवारमित्यर्थः ।
इस (समुद्र) में बड़े बड़े पत्थर (है) । (यह ) तीनों लोकों का भूषण ( है ),
1. अ, क, म±, ह; त्रिजगतम् म1
2. अ, क; स्थितोऽत्र विबुधाः म; स्थितो भुवि बुधा: ह
3. म', म', ह; देवादेव गत: अ, क
4. अ, म, म', ह; निम्नगा: क
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri