This page has not been fully proofread.

'भल्लटशत कम्
 
१०३
 
में उपस्थित किया गया है इसलिए यहाँ काव्यलिङ्ग है। और यहाँ प्रस्तुत
वाच्य शलभ और तार्क्ष्य वृत्तान्त से दुर्बल के उपहास और सबल की प्रशंसा
के वृत्तान्त की प्रतीति व्यञ्जित होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
Give up the pain of making effort in improper place. Sky is
not meant for the movement of a lame person. The vicious
intention of acquiring the habit of quick movement will bring
grief alone to you. The movements of the winds arising from
the ends of Garuda's wings are unthinkable even for the god
Vişnu-the winds which easily ignore the dimensions of the
trempled world and which are heavy with the mountains rooted
out from the ground and coming in their way.
 
चन्द्रेणैव तरङ्गभङ्गि मुखरं संवर्ध्यमानाम्भसो
 
दद्यु
दधु र्जीवित मेव कि गिरिसरित्स्रोतांसि यद्यम्बुधेः ।
तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव
द्राग्दर्पोद्धुरमागतेष्वपि
 
न स क्षीयेत यद्यन्यथा ॥८७॥
 
यदि चन्द्रेण एव संवर्ध्यमानाम्भसः अम्बुधेः तरङ्गभङ्गमुखरं ( यत् )
जीवितं (प्राप्यते) कि (तत्) जीवितम् एव गिरिसरित्स्रोतांसि दयुः ?
यदि ( एतत्) अन्यथा तेषु एव प्रतिसन्धानविकलं पश्यत्सु साक्षिषु इव
द्राक् दर्पोद्धुरम् आगतेषु अपि स न क्षीयेत ।
 
महतो महानेवोपकर्तुं समर्थो नान्य इत्याह – चन्द्रेणैवेति । गिरिसरित्स्रो-
तांसि गिरिषु हिमवदादिषु याः सरितो नद्यस्तासां प्रवाहाः । चन्द्रेण निशा-
करेण नान्येनेत्यर्थः। तरङ्गभङ्गिबहुलं तरङ्गाणामूर्मिणां भङ्गेन सञ्चारेण बहुलं
प्रचुरं यथा भवति तथा भङ्गे र्गत्यर्थाद् भावे घञ् । संवर्ध्यमानं प्रभूतीक्रियमाण-
मम्भो जलं यस्य स तथोक्तः । समुद्रस्य जीवनमेवोदकमात्रम् अन्यत्र प्राणधारण-
मात्रम् । धनादिकमित्यर्थः । दद्युः किम् ? किंशब्द आक्षेपे । नैवेत्यर्थः ।
यद्यन्यथा यद्येवं चेत् जीवनं ददति चेदित्यर्थः । तेष्वेव गिरिसरित्स्रोतस्सु
प्रतिसंविधानविकलं प्रतिक्रियाविहीनं यथा तथा पश्यत्सु अवलोकयत्सु साक्षिषु
सामाजिकजनेष्विव साक्षाद् द्रष्टरि सञ्ज्ञायामितीनिप्रत्ययः । द्राक् शीघ्रं दर्पोद्धुरं
वेगबहुलं यथा तथा आगतेषु अभिमुखमापतितेष्वपि केनाम्बुधिनान संक्षीयेत
 
1. अ, म', ह; बहुल क, म
2. अ, म, ह; जीवनमेव क,
3. क; संक्षीयेत अ, म; तत् क्षीयेत म
 
म2
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri