This page has not been fully proofread.

भल्लटशतकम्
 
नामाप्यन्यतरो
 
निमीलितमभूत्तत्तावदुन्मीलितं
 
प्रस्थाने स्खलतः ' स्ववर्त्मनि विधेरप्युद्गृहीतः करः ।
लोकश्चायमनिष्टदर्शनकृताद् दृग्वैशसान्मोचितो ।
युक्तं काष्ठिक लूनवान् यदसि तामाम्रालिमाकालिकीम् ॥ ८३॥
 
६७
 
(रे) काठिक ! यत् त्वम् आकालिक ताम् प्रालि लूनवान् तत्
युक्तम् (अनेन) अन्यतरो: नाम अपि निमीलितम् अभूत्, तत् तावद्
उन्मीलितम् स्ववर्त्मनि प्रस्थाने स्खलतः विधेः अपि करः उद्गृहीतः ।
अयं च लोकः अनिष्टदर्शनकृताद् दृग्वैशसात् मोचितः ।
 
सततं सद्वृत्तस्य क्वचित्प्रमादादमार्गे प्रवृत्तस्य वधो न प्रशस्यत इत्याह-
नामाप्यन्यतरोरिति । काष्ठानीन्धनानि प्रयोजनमस्य काष्ठिकः तस्य सम्बोधनं
काठिक । प्रयोजनमिति ठक् । आकालिकीम् प्रकाले वसन्तव्यतिरिक्त काले
कुसुमिता आकालिकी ! अध्यात्मादिपाठात् ठञ् भावार्थे । पुष्पितो हि वृक्षः
पुनरुत्पन्न इवाभिनवः तामाकालिक आम्रालि चूततरुपंक्तिम् । यद् यस्मात्
लूनवान् छिन्नवान् । नसिध्मादिभ्य इति निष्ठानत्वम् । तस्मादन्यतरोश्चूत-
व्यतिरिक्ततरो नमापि नामधेयमपि निमीलितं तिरोहितमभूत् । तत्तावद्
तावदेव चूतनामैव उन्मीलितं प्रकाशित मिति । सोल्लुण्ठनं वचनम् । तावच्छब्दो-
ऽवधारणे । स्ववर्त्मन्यात्मीयमार्गे वसन्तव्यतिरिक्तकाले चूतेषु पुष्पोत्पादनं विधि
मर्गिः तत्र प्रस्थानं गमनं सञ्चरणमिति यावत् । तत्र स्खलतः प्रमाद्यतः ।
काले पुष्पमुत्पादयत इत्यर्थः । विधेर्ब्रह्मणः करः पाणि गृहीतः । त्वयैवं
कदाचिदपि न कर्त्तव्यमिति प्रतिबद्धः । अन्यत् प्रयोजनान्तरमपि अस्तीत्यर्थः ।
अयं लोको जनश्च । अदृष्टदर्शनभुवः श्रदृष्टस्याभूतपूर्वस्यौत्पत्तिकस्य कुसुमप्रादु-
र्भावस्य दर्शनेनावलोकनेन भवत्युत्पद्यत इति तथोक्तः । दृग्वैशसात् नयनसङ्क-
टान्मोचितः सन्त्याजित: श्रौत्पातिकदर्शनात् खलु भयमुत्पद्यते । मुञ्चयते हेतु-
मण्ण्यन्तात्क्तप्रत्ययः । तस्मात्तरुच्छेदनं युक्तम् । उचितमेवेति सर्वत्र व्यतिरेको
द्रष्टव्यः । सन्ततपरोपकारिष्वपि स्वजनेषु गुणानेव दोषीकृत्य तानेव समूलं
नाशयन्ति अनात्मज्ञा इति भावः ।
 
अरे लकड़हारे ! जो तुम समय (वसन्त से भिन्न ) समय में (विकसित)
 
1. ह', म; स्खलितं स्व क; स्खलितं स्व अ; स्खलितः स्व म
 
2. म1; विधेरर्त्यंगृहीतः करः क; विधेरन्यद् गृहीतः कर: अ, म2, ह
 
3, म'; अदृष्टदर्शनवशाद् अ, क; अदृष्टदर्शनभुवः म ' ह्
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri