This page has not been fully proofread.

भल्लटशतकम्
 
रुजा अमून् अवयवान् मृषा ग्लपयति । (परम्) अमुना उदात्तस्वच्छ-
न्दाक्रमरणहृत विश्वस्य तमसः परिस्पन्दं मुखमपि द्रष्टुं किं सोढम् ?
 
यः कश्चिच्छत्रुसन्निधौ किञ्चिदपि कर्तुमशक्नुवन् आत्मगृहाभ्यन्तर एव
शौयं प्रदर्शयति तं प्रत्याह - गेहेनर्दतीति गेहेनर्दी गेहेशूरः । गेह एव शौर्या-
डम्बरं प्रकाशयन् गेहेनर्दीत्युच्यते गणरत्नमहोदधौ । पात्रे समितादित्वान्
रिगनिप्रत्ययान्तस्य तत्पुरुषसमासनिपातः । निपातसामर्थ्यादेव सप्तम्या अलुक् ।
 
गेहेनर्तीति पाठः । गेहे मन्दिरे नृत्यति परिस्फुटतीति । तथोक्तः प्रदीपः
कर्ता । स्वस्थाने स्वस्यात्मन: स्थाने अधिकरणे मल्लिकादौ स्थितः सन् दिवस -
विजिगीषाज्वररुजा दिवसस्य श्री विजिगीषा विजेतुमिच्छा अन्यत्र तेजसि
विजिगीषा ध्वन्यते । तया ज्वरः सन्तापः स एव रुग्व्याधिः तया उपलक्षितः
सन्नमूनवयवान् घटपटादेशान् । अन्यत्र सम्बन्धिनः पुत्रादीन् । वृथा व्यर्थमेव
ग्लपयति । स्वसम्पर्केण मलिनयति । गेहेऽपीति या वा म्लायते । हेतुमण्य-
न्तत्वाल्लट् । एतावदेव प्रदीपसामर्थ्यमित्यर्थः । अथवाऽप्यथत्वस्य म्लापयती-
त्यनेन सम्बन्धः । तथापि उदारस्वच्छन्दाक्रमणहृतविश्वस्य उदारं महत् यत्
स्वच्छन्दाक्रमणं स्वेच्छलङ्घनम् । तेन हृतं परिभूतं विश्वं जगद् येन तथोक्तं तस्य
तमसोऽन्चकारस्य मुखमपि प्रारम्भमपि वक्त्रमपीत्यर्थ: । मुखं निस्स॒रणे वक्त्रे
प्रारम्भोपाययोरपीति विश्वः । परिस्पष्टं यथा भवति तथा द्रष्टुमवलोकयितुम् ।
अमुना प्रदीपेन सोढं कि शक्यमित्यर्थः । सहेभविक्तः प्रत्ययः । कश्चिच्छूर-
मन्यो ह्यशक्तानेव बाघते न कदाचिदपि शक्तानिति भावः ।
 
घर में ही शोर करने वाला यह दीपक (अपनी) जगह (ही) रहता हुआ
दिवस को जीतने की इच्छा के ज्वर के रोग के कारण व्यर्थ ही इन अङ्गों को
कष्ट पहुँचा रहा है, (पर) क्या इसके द्वारा विश्व के उदात्त एवं स्वच्छन्द गम-
नागमन को अपहृत करने वाले अन्धकार के स्पन्दन और मुख के देखने को
सहा जा सकता है ?
 
यहाँ प्रस्तुत वाच्य अन्धकार को जीतने का सामर्थ्य न रखने वाले प्रदीप
वृत्तान्त से प्रस्तुत व्यङ्ग्य निर्बलों को सताने वाले शूर के वृत्तान्त की प्रतीति
होने से प्रस्तुतप्रशंसा अलङ्कार है ।
 
Oh ! this earthen lamp which, brave inside the house only
and down with the fever of a desire to conquer the day,
unnecessarily brings pain to its parts. Could it tolerate the very
beginning and futher movements of darkness that abducts the
free and liberal movements of the world?
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
Y