This page has not been fully proofread.

६४
 
भल्लटशतकम्
 
अहो ! स्त्रीरगां क्रौर्यं हत रजनि धिक्त्वामतिराठे
वृथा प्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः ।
प्रवक्तव्ये पाते जननयननाथस्य' शशिनः
 
कृतं स्नेहस्यान्तोचितमुदधिमुख्यैर्ननु' जडैः ॥८१॥
अहो ! स्त्रीणां क्रौर्यम् । अतिशठे ! हतरजनि ! त्वां धिक् । इयं
तिमिरकबरीमोक्षविधृतिः वृथा प्रक्रान्ता । जननयननाथस्य शशिनः
अवक्तव्ये पाते (सति) उदधिमुख्यैः जडै: ननु स्नेहस्य अन्तोचितं कृतम् ।
 
सकलजनाह्लादकारिणो भर्तुर्व्यसने सत्यपि दुष्टस्त्रीहृदयं न व्यथते किन्तु
बन्ध्वादिहृदयमेव व्यथत इत्याह - अहो क्रौर्यमिति । अतिशठे प्रतिवऋस्वभावे ।
निकृतः स्वनृजुः शठ इत्यमरः । हतरजनि भो दग्धरात्रि त्वां भवतीं धिक् । धिक्
शब्दो भर्त्सने वर्तते । बिङ् निर्भर्त्सननिन्दयोरित्यमरः । जननयननाथ्यस्य प्रार्थनी-
यस्य न कृतं नाकारि । समुद्रादयस्तु चन्द्रे अतिवृद्धे सति वर्धनादिकं प्राप्नुवन्ति।
क्षीणे तु न प्राप्नुवन्ति । रात्रिस्तु चन्द्रक्षये तिमिरकवरीं धत्ते । परिपूर्ण तु तस्मिन्
न धत्त इति बन्धुहृदयादपि स्त्रीहृदयस्य अनुचितकर्मकरणात् क्रूरत्वमिति भाव
ध्वनिः । शशिनश्चन्द्रस्य पाते नाशे समासन्ने प्रतिसमीपस्थे सति कृष्णपक्षावसाने-
पीत्यर्थः । त्वया भवत्या इयं परिदृश्यमानातिमिरकबरीमोक्षकुसृतिः तिमिर-
मन्धकार एव कबरीकेशपाशः तस्य मोक्षः परित्यागः तस्मिन् कुसृतिः शठता ।
कुसृतिनिसृतिश्शाठ्यम् इत्यमरः । प्रक्रान्ता समारब्धा तिमिरकबरीमोक्षो नाम कृत
 
इत्यर्थः । तदेव व्यनक्ति प्रेमापायोचितं प्रेमापायस्यानुरागराहित्यस्योचितं
योग्यमेव कृतम् अकारि । तस्मात् क्रौर्यं क्रूरचित्तं स्त्रीणां नारीणामेव । अहो
आश्चर्यम् । पुरुषाणां तु न तथेत्याह - तु शब्दो व्यतिरेके । किन्तु विशेषोऽस्ती-
त्यर्थ: जडैर्जंडप्रभृतिभिरुदधिमुख्यैः समुद्रादिभिः । मुख्पशब्देन चकोर
 
चन्द्रकान्तादयो लक्ष्यन्ते ।
 
आश्चर्य है । नारियों के भीतर (कितनी) क्रूरता होती है ? प्रति निर्दय एवं
 
1. क, म1, ह; अयि अ
2. न, ह; मृषा क, म
 
3. क; मोक्ष निस तिः म , ह; मोक्ष कुसृतिः अ
 
4. भ, क, मे; जननयननाथ्यस्य म, ह
 
5. अ, मे, ह, न तु क
 
6. अक; जलैः म 1, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri