This page has not been fully proofread.

भल्लटशतकम्
 
Now emaciated and not having the capacity of mew what could
it do while remaining in the house, the thieves rats are moving
in the house of the householder.
 
एवञ्चेत् सरस' स्वभावमहिमा जाड्यं किमेतादृशं
 
यद्येषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी ।
मूलञ्चेच्छुचिपङ्कजश्रुतिरियं कस्माद् गुणा यद्यमी
 
किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥७६॥
 
हे सखे मृणाल ! एवं चेत् सरसस्वभावमहिमा (तर्हि) एतादृशं
जाड्यं किम् ? यदि च निसर्गतः एषा सरसता तर्हि ईदृशी ग्रन्थिमत्ता
किम् ? मूलं चेत् शुचि (तहि ) इयं पङ्कजश्रुतिः कस्मात् ? यदि श्रमी
गुरगाः तर्हि छिद्रारिंग किम् ? भवतः तत्त्वं न मन्यामहे ।
 

 
यत्र परस्परविरुद्धगुणसद्भावो दृश्यते तदुपालभ्भनायाह – एवं चेदिति ।
सखे प्रमाणभूत हे मृणाल बिस अनेन जडोऽपि प्रतीयते । स्वभावमहिमा त्वत्स्व-
रूपमाहात्म्यम् । एवमनेन प्रकारेण सरसः सार्वः । अन्यत्र सगुणः। सरसश्चेद्यदि
तर्ह्येतादृशमेवंविधं जाड्यं शीतलत्वम् । अन्यत्र मान्द्यं च किम् । न किमपी-
त्यर्थः । निसर्गतः स्वभावेन । एषा सरलता ऋजुता । अन्यत्रोदारता । यद्यस्ति
तर्ह्येतादृशी एवंविधा ग्रन्थिमत्ता पर्वभूयस्त्वम् । अन्यत्र कुटिलस्वभावता । किं
व्यर्थेत्यर्थः । ग्रन्थि: पर्वणि कौटिल्य इति विश्वप्रकाशः । मूलं ब्रघ्नः प्रकाशः ।
अन्यत्र वंशादिश्च । शुचि शुभ्रम् । अन्यत्र निर्मलम् । चेद्यदि तर्हि इयं पंकज-
श्रुतिः । पंकः कर्दम: । पंकः कर्दमपाकयोरिति विश्वः । तत्र जातं पंकजं
तस्य श्रुतिः । प्रसिद्धिः पंकजमिति प्रथा । कस्माद् हेतोर्भवति । यदीयगुणास्तन्तवः
विनयादयश्च तर्हि छिद्राणि अन्यत्र दूषरणानि किं वृथेत्यर्थः । छिद्रं रन्ध्रे दूषणे-
ऽपीति रत्नमाला । तस्मात् भवतस्तव । तत्त्वं पारमार्थ्यम् । न मन्यामहे साधु-
पक्ष स्थापयामः उत खलपक्ष इति न विद्म इत्यर्थः ।
 

 
हे कमलनाल । यदि तुम्हारे सरस स्वभाव की ऐसी महिमा है तो ऐसी जड़ता
क्यों ? यदि तुम में
से ही सरलता है तो ये गाँठें कैसी ? यदि पवित्र मूल
 
है
 
स्वभाव
 
६१
 
1. अ, म, ह; सरसि क
 
2. अ, क, ह; गरिमा म
 
3. अ, म, हः यस्मादेव क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri