This page has not been fully proofread.

1
 
भल्लटशतकम्
 
पुंस्त्वादपि प्रविचलेद् यदि यद्यधोऽपि
यायाद् यदि प्ररणयने न महानपि स्यात् ।
अभ्युद्धरेत् तदपि विश्वमितीदृशीयं
 
केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥७६॥
 
८७
 
यदि पुंस्त्वात् अपि प्रविचलेत्, यदि अधोऽपि यायात्, यदि प्ररणयने
महान् अपि न स्यात् । तदपि विश्वम् अभ्युद्धरेत् इति ईदृशी इयं दिक्
केनापि पुरुषोत्तमेन प्रकटिता।
 
1
 
महतां स्वभावपरित्यागोऽपि परप्रयोजनायैव सम्पद्यत इत्याह – पुंस्त्वाद-
पीति । पुरुषोत्तमो विष्णुः सुजनोऽपि प्रतीयते । पुंस्त्वात् पुम्भावात् । प्रविचलेद्
यदि अपसरेद् वा । पुरा भगवानमृतप्रदानसमये पुंरूपं परित्यज्य स्त्रीत्वं जगामेति
पौराणिकी कथा । सर्वोन्नतपदस्थोऽपि अधोऽपि पातालं चापि यायादिति यदि
गच्छेत् । यातेरदादिकाल्लिङ् । पुरा भगवान् भूम्युद्धरणाय वराहरूपेण रसातल
जगामेति पौरारिणकी गाथा । महानपि विश्वातिशायिविग्रहोऽपि प्ररणयनेन या-
चने (वामनः ) स्याद् यदि भवेद् वा । पुरा हरिर्बलिबन्धनाय वामनत्वमा-
जगामेत्यत्रापि गाथाऽनुसन्धेया । अथवा प्रणयने याच्चायां सत्यां महान्न
स्यादपि इति लघुभावाद याच्चाया लाघवहेतुत्वादिति भावः । तदपि तथापि ।
उक्तरीत्या विविधामवस्थामा पन्नोऽपि विश्वं समस्तं भूतजातमभ्युद्धरेत् आपद्भ्यः
संरक्षेत् । ईदृशी एवंविधा । इयं परिदृश्यमाना दिक् सन्मार्ग: । पुरुषोत्तमेन
विष्णुना कर्त्रा । केनापि हेतुना । इत्येवं प्रकटिता स्फुटीकृता । अथवा केनापि
अनिर्वचनीयमहिम्नेति पुरुषोत्तम विशेषणमेतत् । अवद्यचरित्रः कोऽपि पुरुषः
स्वपौरुषपरित्यागेऽपि नीचैर्दशायामपि याचनलाघवेऽपि येन केनापि प्रकारेण पर-
परित्राणनं न जहतीति भावः ।
 
यदि पुरुषत्व का भी परित्याग करना पड़े, यदि पाताल (नीच दशा) में भी
जाना पड़े और याचना के अवसर पर महान् भी न रहे ( क्षुद्र भी बनना पड़े) तो
भी संसार का उद्धार करना ही चाहिए, इस रूप में ऐसा यह मार्ग किन्हीं पूर्व
पुरुषोत्तम विष्णु भगवान् ने ( मोहिनी, वराह और वामन आदि के रूप
धारण करके) दिखला दिया है ।
 
का
 
यहाँ वर्णनीय रूप से सत्पुरुष के प्रस्तुत होने पर उसके सदृश विष्णु
 
1. म2; लघुभावे ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri