This page has not been fully proofread.

भल्लटशतकम्
 
८३
 
जायत इत्यर्थः । इदं जगत् अयं लोकः । विपरीतदृक् अन्यथाबुद्धि (र्भव) ति ।
अहो आश्चर्यम् । अत्र जगति । स तथाविधः तृणाग्रभृतो जलबिन्दुर्न तनुमौक्तिक-
मिति ये मन्यन्ते ते वयं सचेतनाः चैतन्यवन्तः । धीमन्त इति यावत् । अविवे-
किनः सुलभा : विवेकिनस्तु दुर्लभा इति भावः ।
 
छोटे से तिनके के अग्रभाग पर टिके हुए उस (जलबिन्दु) से मानों कौन
व्यक्ति मोती के भ्रम से देर तक नहीं आकृष्ट हुआ (अथवा छला नहीं गया) ।
वह तो पानी की बूँद (थी) । आश्चर्य है ! यह संसार (तो) उल्टी दृष्टि वाला
(है) यहाँ हम (ही) बुद्धिमान् (है) ।
 
यहाँ जलबिन्दु में मौक्तिकबुद्धि ( अर्थात् अतस्मिन् तद्बुद्धि ) रूप भ्रान्ति
होने से भ्रान्तिमान् अलङ्कार है । 'क इव' में उत्प्रेक्षा होने से इन दोनों अलङ्कारों
का एकाश्रयानुप्रवेश सङ्कर है।
 
Who else is not deceived for a long time by this water drop
sticking to the top of a small straw mistaking it to be a gem
while it is a drop of water only. This world looks at it otherwise.
We alone are conscious (of its real nature).
 
बुध्यामहे न बहुधापि विकल्पयन्तः
 
कैर्नामभिर्व्यपदिशेम महामतीस्तान् ।
येषामशेषभुवनाभरणस्य हेम्न-
स्तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥७३॥
 
बहुधा विकल्पयन्तः अपि (वयं) न बुध्यामहे । तान् महामतीन् कै:
नामभिः व्यपदिशेम, येषां (कृते) अशेषभुवनाभरणस्य हेम्नः तत्त्वं
विवेक्तुम् उपलाः परमं प्रमाणं विद्यते ।
 
ये वस्तुस्वरूपं परिज्ञातुम् असमर्थास्तानि परमुखेन विश्वसन्ति तदुपालम्भ-
नायाह—बुध्यामह इति । बहुधा नानाप्रकारेण । विकल्पयन्तो विचारयन्तः ।
अपि (न बुध्यामहे) तत्स्वरूपं तत्त्वतो न विद्य इत्यर्थः । बुध्यतेर्देवादिकात् कर्तरि
लट् । महामतीन् कुशाग्रबुद्धीन् महा० इति सौल्लुण्ठ नवचनम् । तान् पुरुषान्
कैर्नामभिर्नामधेयैर्व्यपदिशेम व्यवच्छिन्नान् कुर्याम । तेषां गुणान् कथयामु इति
काकुः । व्यपदेशो नाम भेदनिबन्धनो व्यवहार इति न्यासकारः । अथ व्यवहरेमेति
पाठः । तत्र निगदेन व्याख्यानम् । अशेषभुवनाभरणस्य कृत्स्नं यद्भुवनं जगत्
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri