This page has not been fully proofread.

भल्लटशतकम्
 
७५
 
यहाँ प्राणहरणरूप कार्य के लिए शुद्धि, स्वपक्षसमुन्नति आदि अनेक
कारण खलेकपोतन्याय से उपस्थित हो गये हैं, अतः समुच्चय अलङ्कार है ।
अप्रस्तुत वाच्य विशिखवृत्तान्त से प्रस्तुत व्यङ्ग्य दान देने में अनिपुण दानी
के वृत्तान्त की प्रतीति होने से प्रस्तुतप्रशंसा अलङ्कार भी है ।
 
O cruel arrow! approaching within a moment near the ear
of the most important man and attacking ruthlessly from afar
the people in front of you, you destroy them. Is it befitting
your purity? Is it related with the rise of people from your side?
Is it proper result of your acts or is it due to your love for the
string of the bow?
 
श्रमी ये दृश्यन्ते ननु सुभगरूपा : सफलता
भवत्येषां यस्य क्षरणमुपगतानां विषयताम् ।
निरालोके लोके कथमिदमहो चक्षुरधुना
 
समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥६५॥
 
अमी ये सुभगरूपाः (मुखाद्यवयवाः ) ननु दृश्यन्ते, यस्य क्षरणं
विषयताम् उपगतानाम् एषां सफलता ( भवति ) । अहो ! अधुना (तद् )
इदं चक्षुः कथं निरालोके लोके सर्वैः श्रन्यैः अवयवैः समं जातम् ? अथवा
( कथं ) समम् न ( सन्ति ) ?
 
सकलजनपरीक्षकोऽपि विद्वान् अज्ञसमाकान्तकुनामादिनिवासेनादावज्ञसमो
भवेत् । ततस्तेभ्योऽपि निकृष्टो भवतीत्याह – श्रमीय इति । सुभगरूपा मनो-
हराकारा: दर्शनीया इति यावत् । अमी परिदृश्यमाना ये घटाद्यर्थाः दृश्यन्ते ननु
परीक्ष्यन्ते हि । ननु शब्दः प्रसिद्धौ । यस्य चक्षुषः । क्षणं क्षणमात्रम् । विषयतां
गोचरतां पुरोवर्तित्व मिति यावत् । उपगतानां प्राप्तानाम् । सफलता भवति । यः
पदार्थ: समीचीनोऽपि यदा चक्षुषा समीक्ष्यते स तदानीमेव समीचीन इत्युच्यते ।
इदं चक्षुः । अधुना इदानीम् । लोके जगति । निरालोके निष्प्रकाशे तमोव्याप्ते
सति अन्यत्र विचाराक्षमे सति । सर्वेरवयवः करचरणादिभिः । कथं केन प्रकारेण
समं जातं तुल्यमभूत् । यथा करचरणादिभिः ( निविडा ) 1 न्घकारके प्रदेशे चक्षु-
षापि न दृश्यत इति समभावो द्रष्टव्यः अथवेति पक्षान्तरे । अन्यैरपि करचर-
गादिभिः समं तुल्यमपि न जातम् । इतरावयवानां स्वस्वविषयेषु वृत्तिरन्धकारे
1. म2, ह में नहीं; संशोधित पाठ
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri