This page has not been fully proofread.

.
 
७४
 
भल्लटशतकम्
 
किमिदमुचितं शुद्धे: श्लिष्टं स्वपक्षसमुन्नतेः
फलपरिणतेर्युक्तं प्राप्तं गुरणप्ररणयस्य वा ।
क्षरणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्
 
विशिख निपतन्दूरान्नृशंस निहंसि यत् ॥ ६४॥
 
(भो :) नृशंस विशिख । यत् त्वं परस्य कर्णोपान्तं क्षरणमुपगतः
दुरात् निपतन् पुरः स्थितान् क्रूरं निहंसि, किम् इदं शुद्धेः उचितम् ?
कि स्वपक्षसमुन्नतेः श्लिष्टम् ? किं फलपरिणते: युक्तम् ? (किम् )
वा गुरणप्ररणयस्य प्राप्तम् ?
 
यः कश्चिद् राजवल्लभः स्वस्य धनाद्यप्रदानेन गुणिनं दोषिणमेवाभिधाय
तत्कार्यं विनाशयति तद्विडम्बयन्नाह – किमिदमुचितमिति । नृशंसः क्रूरतरः ।
नृशंसो घातुकः क्रूर इत्यमरः । भो विशिख बारण उभयवेतनोऽपि प्रतीयते ।
परस्य अत्यन्तमुख्यस्य च । परं दूरात्यन्तमुख्येष्विति यादवः । कर्णोपान्तं श्रवण-
समीपं क्षणं मुहूर्तमुपगतः प्राप्तः । दूरात् क्रूरः तीक्ष्णो निष्ठुरश्च यथा तथा
निपतन्नागच्छन् पुरोऽग्रे स्थितान् निहंसि बाघस इति यत् इदं शुद्धेः लोहशुद्धेः
उचितं कि नेत्यर्थः । स्वपक्षसमुन्नतेः स्वपक्षस्य पक्षाणां समुन्नतिर्गुरुता । अन्यत्र
सहायानां च समुन्नतेराधिक्यस्य स्पष्टं व्यक्तं कि नेत्यर्थः फलपरिणतेश्शल्यस्य
निशितताया कथनाभिवृद्धेश्च युक्तमुचितं कि नेत्यर्थः । गुणेन मौर्व्या प्रणयः
सम्बन्धस्तस्य । अन्यत्र गुणेषु विनयादिषु प्रणयस्य स्नेहस्य प्राप्तं योग्यं
किमित्यत्रापि काकुः । सद्गुरणवता स्वगुणानुगुण्येनाचरितव्यमित्यर्थः ।
क्वचिद् दूष्यदूरदेशादागताद् याचकात् घनादि स्वीकृत्य तस्मै धनादिकं दापयति
न तु समीपस्थेभ्यः पात्रेभ्योऽपीति भावः ।
 
अरे कर बाण ! जो तुम अत्यन्त प्रमुख पुरुष के कान के पास क्षण भर
में पहुँच कर दूर से गिरते हुए सामने ठहरे हुए लोगों को निर्दयता के साथ
मारते हो क्या यह तुम्हारी पवित्रता के अनुरूप है ? क्या यह अपने पक्ष की
उन्नति से सम्बद्ध है ? क्या यह फलपाक के उपयुक्त है (अर्थात् क्या इसी रूप में
लोगों का अन्त होना चाहिए ) ? और क्या यह ( उनके ) गुणों में (और पनी
डोरी में) प्रेम रखने के योग्य है ?
 
1. क, म; स्पष्टं म, ह
 
2. अ, क, ह; क्रूरो म
3. अ, म, ह भिनत्सि क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
CSS