This page has not been fully proofread.

६८
 
भल्लट शतकम्
 
O serpent ! you were not fit for the feet of Lord Siva. But
Śiva due to affection wore you as a feet ornament. But could
you make the jingling sound of anklet which surpass the whirling
sounds of bees ?
 
मौलौ सन्मरगयो गृहं गिरिगुहा त्यागित्वमात्मत्वचो
निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
अन्यत्रानुजु वर्त्म वारिसना दृष्टौ विषं दृश्यते
या दिक्' तामनु दीपको ज्वलति भो भोगिन् सखे किंन्विदम्
 
॥५६॥
 
भोः सखे भोगिन् । इदं नु किम् ? मौलौ सन्मरणयः, गिरिगुहा गृहम्,
आत्मत्वचः त्यागित्वम्, निर्यत्नोपनतैः अनिलैः च वृत्तिः - एकत्र ईदृशी
चर्या । अन्यत्र अनृजु वर्त्म, द्विरसना वाक्, दृष्टौ च विषम् दृश्यते । या
दिक् दृश्यते ताम् अनु दीपक: ज्वलति ।
 
यत्र गुरणदोषाश्च यौगपद्येन दृश्यन्ते तं प्रत्याह - मोलौ सन्मणय इति । सखे
प्रारणसम भो भोगिन् हे सर्प ! विषयी च प्रतीयते । मौलौ शिरसि सन्मरणयः
प्रशस्तरत्नानि दृश्यन्त इति शेषः । अनेनान्यत्र विवेकित्वं ध्वन्यते । गिरिगुहा
पर्वतगह्वरमेव गृहं मन्दिरम् । अनेन रागित्वमुच्यते । त्यागित्वमौदार्यं च ।
श्रात्मत्वचा स्वनिर्मोकेन शरीरचर्मरणा । अन्यत्र अनेनौदार्यप्रकर्ष उक्तः ।
निर्यनेनानायासेन । उपनतैरागतै रनिलैर्वायुभिः । वृत्तिर्जीवनम् वृत्तिर्वर्तन-
जीवने इत्यमरः क्रियते । अन्यत्र न तपोनिष्ठत्वमुच्यते । एकत्र एकस्मिन् पक्षे ।
ईदृशी एवंविधा चर्या आचरणं दृश्यते इति वाक्यशेषः । अन्यत्रान्यस्मिन् पक्षे ।
अनृजु कुटिलं वर्त्म मार्ग: गतिरिति यावत् । अनेन वऋशीलतोक्ता । वाग्वाण्यपि
द्विरसनाद् द्विजिह्वा भवति अनेनासत्यवादित्वमुच्यते । किञ्च दृष्टौ चक्षुषि विषं
गरलं दृश्यते । अनेनासूयाविष्कृतोच्यते तदेवोपपादयति – या दिक् भवता'
दृश्यते तां दिशमनुलक्षीकृत्य दीपको अग्निर्ज्वलति प्रकाशते । अनेन हिंस्रत्व-
मुच्यते । इदं परस्परविरुद्धं चेष्टितम् । किन्तु कीदृशमनुचितमित्यर्थः । दुष्ट-
चेष्टितं केनापीदम् । यो न ज्ञातुं शक्यत इति भावः ।
 
1. म, म, ह; त्यागः किलात्मत्वचो क
 
2. म1 हः
 
नतः स्ववृत्तिर० अ, क
 
3. म1, ह; या दृक अ, क
 
4. म2; भगवता ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri