This page has not been fully proofread.

६४
 
भल्लटशतकम्
 
रे कुजन्मन् पांसो ! आजन्मन: अणु अपि कुशलं यदि त्वया कृतं
तत् त्वमेव वद । ( त्वम् ) दुष्टेन अनलसारथिना यदर्थम् उत्थापितः असि
तत् कुरु, एतत् विश्वं कलङ्कय ।
 
दुर्जनान्तरप्रेरितो दुर्जनः सकलमपि क्लेशयतीत्याह – आजन्मन इति । को-
भूमेः सकाशात् जन्म यस्य स कुजन्मा । कुः व्यधिकरणे बहुव्रीहिः तस्य सम्बुद्धिः
रे कुजन्मनु अन्यत्र भो दुष्कुलीन । इति हीनसम्बोधने रे पांसो रजस्त्वया ।
आजन्मनो जन्मनः प्रभृति । आजन्मन इति भिन्नं पदम् अन्यथा आजन्मेति
स्यात् । अणु अल्पमपि । कुशलं क्षेमम् उपकारमिति यावत् । कृतं यदि कृतं
चेत् तर्हि तत्त्वं सत्यमेव वद कथय । दुष्टेनानुपकारिणाऽनलसारथिना । यदथं -
यस्मै प्रयोजनाय । उत्थापितम् ऊर्ध्वं प्रापितम् । अन्यत्र प्रेरितम् । असि तत्कार्य
कुरु । तदेवाह – एतद्विश्वं जगत् । कलङ्कय मलिनीकुरु । कलङ्कशब्दात्तत्करो-
तीति ण्यन्ताल्लोट् अन्यत्र कलङ्कय दोषमुत्पादय ।
 
-
 
श्ररी कुजन्मा धूल ! जन्म लेकर तूने यदि लेशमात्र भी कोई अच्छा काम
किया हो तो बताओ। जिस प्रयोजन से दुष्ट वायु ने तुम्हें उठाया है उसे पूरा
करो। इस सारे संसार को मैला कर दो ।
 
यहाँ प्रस्तुत वाच्य पांसुवृत्तान्त से अप्रस्तुत अनुपकारी दुर्जनवृत्तान्त की
प्रतीति होने से प्रस्तुतप्रशंसा है । सारे विश्व को कलङ्कित करने के कार्य का
हेतु वायु द्वारा उत्थापन को बताने के कारण यहाँ काव्यलिङ्ग भी है ।
 
O low born dust ! tell me if you have, ever since your
birth, accomplished any act of goodness. Fulfil the motive with
which the wicked air has raised you high and pollute the whole
world.
 
निस्सारा: सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचि
च्छुष्यन्तोऽद्य 'जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेरण ये ।
अन्तःसारपराङ्मुखेन घिगहो ते मारुतेनामुना
ते
पश्यात्यन्तचलेन सझ महतामाकाशमारोपिता ॥५६॥
अहोधिक पश्य, अथ निस्सारः सुतरां लघु प्रकृतयः क्वचित् कार्ये
 
1.
 
2,
 
क, म; तोऽव अ, ह
 
अ, क, ह वर्त्म म
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri