This page has not been fully proofread.

भल्लट शतकम्
 
अलंकार है तथा प्रस्तुतवाच्य चिन्तामरिणवृत्तान्त से प्रस्तुत व्यङ्ग्य सुयोग्य
व्यक्ति की अवज्ञारूपवृत्तान्त की प्रतीति होने से प्रस्तुतप्रशंसा है ।
 
O friend Cintamani, do not grieve due to the fact that no
king on this earth has placed you on his head. Actually there is
nobody's head befitting enough to wear you with previous
meritorious deeds which could be the cause of placing you
(on it).
 
संवित्तिरस्त्यथ गुरगाः प्रतिभान्ति लोके
 
तद्धि प्रशस्तमिह' कस्य किमुच्यतां वा ।
नन्वेवमेव सुमणे लुट यावदायु -
स्त्वं मे जगत्प्रसहनेऽत्र कथाशरीरम् ॥५०॥
 
हे सुमणे (तब) संवित्तिः अस्ति अथ लोके गुरगाः प्रतिभान्ति । इह
प्रशस्तं तत् (गुरगजातम् ) कस्य वा किमुच्यताम् ? ननु एवमेव त्वं
यावदायुः मे लुट, अत्र जगत्प्रसहने कथाशरीरम् ।
 
यः कश्चित्सुजनः प्रथितः सद्गुणोऽप्यसत्कृतो भवति तदाश्वासनायाह-
संवित्तिरिति । सुमणे भोश्चिन्तामणे सुजनोऽपि ध्वन्यते । तव संवित्तिः सम्यग्
ज्ञानमस्ति चिन्तितार्थप्रदानसामर्थ्यस्य सद्भावादिति भावः । अथानन्तरम् ।
गुणा दातृत्वादयो लोके प्रतीता भवन्ति प्रकाशन्ते । इह लोके प्रशस्तं प्रसिद्धं
तद्गुणजातं कस्य वा कि कारणम् । उच्यतामित्यर्थः । नैवेत्यर्थः । प्रतिप्रसिद्धार्थस्य
वक्तुमनुचितत्वादिति भावः । ननु चिन्तामरणे त्वं मे मदर्थं यावदायुरायुर्याव-
दस्ति तावदित्यर्थः । यावदवधारण इत्यव्ययीभावः । एवमेव सर्वोपकर्तृत्वेन लुठ
उन्मिष प्रकाशयेति यावत् । गुरगवतो वस्तुनः प्रकाशितुमुचितत्वादिति भावः ।
ननून्पन्नस्यावश्यविनाशित्वादायुषोऽन्ते स्वरूप नाशे सति तदाश्रितं सर्वमपि गुण-
जातं विनङ्क्ष्यति । तत्किमनेन अल्पेन प्रकाशेनेति शंकायां भौतिकशरीर-
नाशेऽपि कीर्तिशरीरस्यापि नश्वरत्वेन न दोष इत्याह - जगत्प्रसहनैककयेति ।
जगत: सर्वस्यापि लोकस्य प्रसहनं प्रकरण सहनम् । याचकयाच्या बाहुल्यस्या-
तीव तितिक्षेति यावत् । एकं तदेव कथा मुख्या वार्ता सैव ते शरीरं भविष्यतीति
 
1. अ, म1, ह; प्रशस्यमिह क
 
2. क, म; जगत्प्रसहनेक क, अ, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri