This page has not been fully proofread.

:
 
भल्लट शतकम्
 
नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि र
त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् ।
नैराश्यातिशयातिमात्र निभृतं निःश्वस्य यदु दृश्यसे
 
तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥४७॥
 
५४
 
(हे) अम्बुघे ! यदि उद्वेगं न यासि । यदि अवहितः क्षरणं करणं
ददासि (तहि अहं) त्वां यत्किमपि पृच्छामि तत् निश्चित्य उत्तरं देहि ।
नैराश्यातिशयातिमात्रनिभृतैः तृष्यद्भिः पथिकैनिःश्वस्य यत् ( त्वं )
दृश्यसे तत् (दर्शनं) अतः औदाहात् कियत् अधिकं स्यात् ?
 
यस्तु घनवानयथिभिरलब्धमनोरथैः सविषादमालोक्यते तद्विडम्बनायाह-
नोद्वेगमिति । हे अम्बुघे समुद्र ! प्रभुरपि प्रतीयते । यद्युद्वेगं मनस्तापं न
यासि न गच्छसि वक्ष्यमारणस्यार्थस्यातीव परुषत्वादिति भावः । अवहित एका-
ग्रमनाः सन् क्षणं क्षरणमात्रं यदि कर्ण ददासि प्रयच्छसि श्रोष्यसीत्यर्थः । तर्ह्यहं
त्वां यत्किमपि वचो वचनं पृच्छामि । पृच्छते र्दुहियाचीत्यादिना द्विकर्मकता ।
तन्निश्चित्यावधार्य उत्तरं प्रतिवचनं देहि ब्रूहीत्यर्थः । तदेव प्रश्नस्वरूपं निरूप-
यति – तृष्यद्भिः पिपासितैः पथिकैर ध्वगैनैराश्यातिशयातिमात्रनिभृतैः । सर्वथा -
यमपेयजलः तस्य समीपं गत्वा तृट्प्रतीकारो न विधेय इत्येवम्भूतस्य निराशभा-
वस्या तिशयेन प्रभूततया अतिमात्रमत्यर्थं निभृतं निश्चलं यथा निःश्वस्य थूत्कृत्य
दृश्यसे प्रेक्ष्यसे इति यत् । तदतोऽस्मात् – प्रर्वदाहात् श्रौर्वाग्निजनितासन्तापात्
कियत् अधिकं भूयिष्ठं स्यात् वडवानलसञ्जातादप्य लब्धमनोरथपथिकजनवीक्षण-
स्तापो दुःसह इत्यर्थः । स्वकीयजनसन्तापात् परकीयस्तापो गरीयानितिभावो
ध्वन्यते ।
 
-
 
हे समुद्र ! यदि तुम नाराज़ न हो और क्षण भर ध्यान देकर सुनते हो तो
मैं तुमसे थोड़ा बहुत जो पूछता हूँ उसका निश्चय करके उत्तर देना । निराशा
के आधिक्य से बहुत चुपचाप रहने वाले प्यासे पथिकों के द्वारा आहें भर भर कर
जो तुम्हें देखा जाता है वह दृष्टि वडवानल से कितनी अधिक ( दुःसह ) होती है ?
 
दह (समुद्राग्नि) से होने वाले कष्ट की अपेक्षा निराग पथिकों की
दृष्टि अधिक कष्टकारी होती है इस प्रकार यहाँ उपमेय की अपेक्षा उपमान के
अधिक (औदाह की तुलना में पान्यदृष्टिदाह के अधिक कष्टकारक ) होने से
1. ह; विमावनिभूतं अ, म
 
मनिशं क
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri