This page has not been fully proofread.

भल्ल टशत कम्
 
useful for all and are pouring water in forests which are filled
with burning sands and useless for all persons.
 
४५
 
लब्धायां' तृषि गोमृगस्य विहगस्यान्यस्य वा कस्यचिद्
 
वृष्ठ्या' स्याद् भवदीययोपकृतिरित्यास्तां दवीयस्यदः ।
अस्यात्यन्तमभाजनस्य' जलदारण्योषरस्यापि किं
जाता ' पश्य पुनः पुरेव परुषा सैवास्य दग्धा छविः ॥ ४२ ॥
 
(हे) जलद ! गोमृगस्य विहगस्य अन्यस्य वा कस्यचिद् तृषि
लब्धायां भवदीयया वृष्ट्या उपकृति: स्यात् इति प्रदः दवीयसि
आस्ताम् । अत्यन्तम् अभाजनस्य अस्य आरण्योषरस्यापि ते वृष्ट्या किं
( जातम् ? ) पश्य, अस्य सैव छविः पुनः पुरेव परुषा दग्धा (च) जाता ।
 
यः परेषां नोपकरोति स नोपकर्तेत्याह – लब्धायामिति हे जलद । गोरुक्षादे
मृगस्य कृष्णसारादेः । विहगस्य पक्षिणः काकादेरन्यस्य वा कस्यचित्प्राणिनः
कृमिदंशादेः । तृषि तृष्णायां लब्धायाम् । सञ्जातायां सत्याम् । भवदीयया
त्वत्सम्बन्धिन्या । त्यदादीनि चेति वृद्धत्वं वृद्धाच्छ इति वृष्ट्या उपकृतिरुपकारः
स्याद् भवेत् । इत्यतेद् दवीयसि दूरे आस्ताम् तिष्ठतु । अत्यन्तमतितरा-
मभाजनस्यापात्रस्यारण्योषरस्यास्य ते वृष्ट्याकिम् ? न किमपीत्यर्थः । पुनः किन्तु
पुरैव पूर्वमेव परुषा कठिना सैषा सेयमारण्योषरस्य छविर्दग्धा हता जाता ।
वृष्ट्याप्तं किल शैवलावरणेन श्यामीभूता चेत्यर्थः । अपात्रे दीयमाने दातुः
स्वीकर्तश्च न किमपि प्रयोजनं स्यात् किन्तु स्वीकर्तुः प्रत्यवायो भवेदिति भावः ।
 
हे मेघ ! नीलगाय अथवा बैल और हरिण, पक्षी या किसी दूसरे प्राणी को
प्यास लगने पर आपकी वर्षा से उपकार हो जायेगा इस प्रकार की बात तो बहुत
दूर की होगी (अर्थात् तुम किसी की प्यास बुझा सको इसकी तुमसे आशा रखनी
व्यर्थ है)। अत्यन्त प्रसत्पात्र इस ऊसर जंगल को भी ( तुम्हारी वर्षा से) क्या
 
1. अ, क, ह; जातायां म
 
2. म, ह; वृष्ट्या क, म]
 
3. अ, म, ह; रप्यास्तां क
 
4. भ, ह; महाजडस्य अ, क
 
5. ह; जातं अ, क, म1
 
6. क, ह; पुरैव अ, म
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
i