This page has been fully proofread once and needs a second look.

नटी – (क) अय्य! सोहअम् । अह्माणं मणोरहकप्पपाअवो
फुप्फिओ ।
 
सूत्र - आर्ये ननु फलित एव । यतस्तदभिनयकुतूहलिन्या
विद्वत्परिषदा साम्प्रतमित्थमाज्ञप्तः[^1] ।
 
काव्यकोशनिगूढानि ग्रथितानि नवैर्गुणैः ।
उद्घाट्य रसरत्नानि त्वं नः सन्दर्शयेरिति ॥ ६ ॥
 
नटी – (ख) अणुग्गहीद ह्म [^2]। (विमृश्य सश्लाघम्) सव्वदा
सिलहणिज्जं[^3] एदं णिबन्धणं । जेण सच्चवअणो आदेसओ, कित्ति
भाअणं कई, पेख्खणविणोदिणो अय्यमिस्सा सफळमणोरहा अह्मे
(वि) संवुत्ता ।
 
सूत्र – आर्ये [^4] ! नन्वेवम्
 
अपि स्वार्थे प्रवृत्तानां धीमतां सदुपक्रमः ।
बहूनामुपकाराणां यान्ति कारणतां फले ॥ ७ ॥
 
(नेपथ्ये )
 
भद्र ! कल्याणभाजनं भूयाः यतो भद्रमिदमुदाहरसि ।
-
(क) आर्य शोभनम् । अस्माकं मनोरथकल्पपादपः पुष्पितः ।
(ख) अनुगृहीताः, स्मः । सर्वथा श्लाघनीयमेतद् निबन्धनम् ।
येन सत्यवचन आदेशकः कीर्तिभाजनं कविः, प्रेक्षणविनोदिनः आर्यमिश्राः,
सफलमनोरथा वयमपि संवृत्ताः ।
-
[^1] 'सांप्रतमहमिदमाज्ञप्त:' ख.
[^2] 'हिद ह्मि' ख.
[^3] 'सिळाहणिज्जं' ख.
[^4] 'आर्ये' इति खपाठे नास्ति ।
[^5] 'इदम्' इति खपाठे नास्ति ।