This page has been fully proofread once and needs a second look.

सूत्रधारः – आर्ये ! ननु स्मरसि यत्[^1] सिद्धार्थकनाम्ना[^2]
त्रैकाल्पविदुषा कार्तान्तिकेन मां प्रत्यादिष्टम् —
 
करिष्यते भीमपराक्रमाख्यं
काव्यं शतानन्दकवीन्द्रसूनुः ।
मनीषिणां संसदि तत्प्रयोक्ता[^3]
त्वं सम्पदां धाम भविष्यसीति[^4] ॥ ३ ॥
 
नटी – (क) जाणामि[^5] जाणामि एदम् । ता किं दाणि कइ णा
तं णिबन्धणं समाविदम् ।
 
सूत्रधारः - आर्ये ! समापितं समर्पितं च मम करे, तदिद-
मुक्तं च —
 
अणुमपि गुणमुचैः कुर्वतां पण्डितानां
विवृणु तदिदमग्रे नेतरेषां कदाचित् ।
सफलयति यथाब्धौ शुक्तिरभ्रस्य वृष्टिं
प्रभवंति न तथा[^6] हि क्वापि शम्बूकयूथम् ॥ ४ ॥
 
अपि च —
 
ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा
ये वा केवलतर्ककर्कशघियः साक्षाच्च ये श्रोत्रियाः ।
ये च द्वेषमषीमलीमसधियस्तान् प्राज्ञगोष्ठीरस-
प्रौढप्रावृडवग्रहान् परिहरन् वाचां[^7] प्रचारं कुरु ॥ ५ ॥
-
(क) जानामि जानाम्येतद् । तत् किमिदानीं कविना तन्निबन्धनं
समापितम् ।
-
[^1] 'यद्' इति खपाठे नास्ति ।
[^2] 'सिद्धाकनाम्ना' क.
[^3] 'तत्प्रयोगात्' ख.
[^4] 'करिष्यसीति' ख.
[^5] 'द्वितीयं 'जाणामि' ख. पाठे नास्ति ।
[^6] 'तथापि' ख.
[^7] 'वाचः प्रचारं' ख.