2026-01-20 00:13:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीः ॥
</subtitle>
<subtitle lang="sa">शतानन्दकवीन्द्रसूनुविरचितं
</subtitle>
<verse lang="sa">गौरीबाहुलताशङ्खवलयांशुभिरञ्जसा ।
कृष्णोऽप्यर्जुनतां नीतः कण्ठो भीमस्य पातु वः ॥ १ ॥
</verse>
<stage>(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
</stage>
<speaker>सूत्रधारः - |</speaker> <stage>(सहर्षम्)</stage> अयमपूर्वाभ्युदयवृत्तान्तः[^1] श्राणसमायै
समुपहर्तव्यः । यतः —
<verse lang="sa">उत्सवस्य परा काष्ठा सूक्तिलाभो हि तद्विदाम् ।
सुहद्भिः[^2] संविभागेन स सहस्रगुणायते ॥ २ ॥
</verse>
<stage>(परिक्रम्य नेपथ्यं प्रति)
</stage>
आर्ये ! यदि कल्याणाकर्णनकुतूहलि ते श्रवणयुगलम्,
तदितस्तावदागम्यताम् ।
<stage>(प्रविश्य)
</stage>
<speaker>नटी – </speaker>(क) एस हि्म अवहिदा । अय्यो कहेदु [^3] ।
(क) एषास्म्यवहिता । आर्यः कथयतु ।
[^1]''भ्युपूर्वाभ्युदय'' ख.
[^2]''सुहृद्भ्य: '' ख.
[^3]''कहहिदु'' ख.
</page>
<subtitle lang="sa">॥ श्रीः ॥
<subtitle lang="sa">शतानन्दकवीन्द्रसूनुविरचितं
<verse lang="sa">गौरीबाहुलताशङ्खवलयांशुभिरञ्जसा ।
कृष्णोऽप्यर्जुनतां नीतः कण्ठो भीमस्य पातु वः ॥ १ ॥
<stage>(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
<speaker>सूत्रधारः -
[^1]
[^2]
[^3]
</page>