This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
शतानन्दकवीन्द्रसूनुविरचितं
भीमपराक्रमम् ।
 
गौरीबाहुलताशङ्खवलयांशुभिरञ्जसा ।
कृष्णोऽप्यर्जुनतां नीतः कण्ठो भीमस्य पातु वः ॥ १ ॥
 
(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
 
सूत्रधारः - |(सहर्षम्) अयमपूर्वाभ्युदयवृत्तान्तः[^1] श्राणसमायै
समुपहर्तव्यः । यतः —
 
उत्सवस्य परा काष्ठा सूक्तिलाभो हि तद्विदाम् ।
सुहद्भिः[^2] संविभागेन स सहस्रगुणायते ॥ २ ॥
 
(परिक्रम्य नेपथ्यं प्रति)
 
आर्ये ! यदि कल्याणाकर्णनकुतूहलि ते श्रवणयुगलम्,
तदितस्तावदागम्यताम् ।
 
(प्रविश्य)
 
नटी – (क) एस हि्म अवहिदा । अय्यो कहेदु [^3] ।
-
(क) एषास्म्यवहिता । आर्यः कथयतु ।
-
[^1] 'भ्युपूर्वाभ्युदय' ख.
[^2] 'सुहृद्भ्य: ' ख.
[^3] 'कहहिदु' ख.