This page has been fully proofread once and needs a second look.

(भरतवाक्यम्)
 
वंशोदग्रे गुणिनि रमतां रत्नगर्भा नरेन्द्रे
शश्वच्छम्भोश्चरणकमले भक्तिमानस्तु लोकः ।
सार्धं मित्रैरविरतरसान् स्वादयन्तः कवीनां
वाणीगुम्फान् सततगुणिनः सज्जनाः सन्तु कामम् ॥ ११४ ॥
 
[ इति निष्क्रान्ताः सर्वे । ]
 
भीमपराक्रमं नाम नाटकं समाप्तम् ।
 
॥ पार्वतीपरमेश्वराभ्यां नमः ॥
 
। शुभमस्तु ।