This page has been fully proofread once and needs a second look.

सर्वे - यदादिशति शतानन्दसम्भवः । (इति प्रणम्य ) भगवन् !
पुनरप्ययमेवमेव स्मर्तव्यः शिष्यवर्गः ।
 
(नैपथ्ये)
 
जयति भुवनरक्षादीक्षितः शार्ङ्गपाणि-
र्जयति 'विजयकीर्त्तिः[^1] पौरवो राजवर्यः
 
नारदः - एषा नभश्चरैर्गीयते भवतां भोगावलिः ।
 
(नैपथ्ये)
 
एष वृद्धो महामात्यो विज्ञापयति-
 
अपगतनिगलानां साम्प्रतं भूमिपानां
स्वसदनमभिगन्तुं दीयतामभ्यनुज्ञा ॥ ११२ ॥
 
सर्वे - यथासुखं[^2] गच्छन्तु ।
 
नारदः - किं वो भूयः प्रियमुपकरोमि ।
 
सर्वे - किमतः परमुपकर्तव्यमस्ति ।
 
यन्निर्वोढा कुरुपरिवृढः साम्प्रतं सप्तनन्तुं
यच्चास्माभिर्न्यवधि मगधग्रामणीः सङ्गराग्रे ।
यच्चेदानीमवनिपतपः स्वस्तिमन्तः समस्ता-
स्तत् किं ब्रूमो भवदुपगमानुग्रहो ह्यत्र हेतुः ॥ ११३ ॥
 
तथापीदमस्तु –
-
[^1] 'विशदकीर्तिः' ख. .
[^2] '(सहर्ष) यथा' ख. ।