This page has been fully proofread once and needs a second look.

सहदेवः - (सर्वानवलोक्य)
 
वासवाद्वसुमस्माच्च बृहद्रथमतः परम् ।
पितरं मे गतः सोऽयं स्यन्दनः प्रतिगृह्यताम् ॥ ११० ॥
 
(इति रथमर्पयित्वा प्रणमति ।)
 
सर्वे - (रथं प्रतिगृह्य कुपारमुत्थाप) एवमेव धर्मराजानुवृत्ति-
निपुणो राजश्रियः परिणायको भव ।
 
सहदेवः - अनुगृह्यतामयं मित्रजनो नियोगदानेन ।
 
कृष्णः -
 
पाण्डवात् सहदेवात् त्वमभिन्नोऽस्मामिरीक्ष्यसे ।
तदेष प्रेष्यसे बन्धान्मुच्यन्तां मदिनीभृतः ॥ १११ ॥
 
सहदेवः – (अमात्यं प्रति) अनुष्टीयतां नियोगः ।
 
अमात्यः - यदमिरुचितं भवद्भ्यः ।
 
सर्वे - सहदेव! त्वमपि पित्रे कृतयथोचितकृत्यः सिंहासन-
मशून्यं कुरु ।
 
(सहदेवस्तूष्णीमधोमुखस्तिष्ठति ।)
 
भीमार्जुनौ – कुमार! अलं वैक्लब्येन । सर्वथाजातशत्रोर्मित्रमसि ।
 
सहदेवः - तथा । ( इति सामात्यो निष्कान्तः ।)
 
नारदः - कमलासनोपस्थानसमयो मां त्वरयति । तद्
भवनन्तोऽप्येतेन रथेन[^1] धर्मराजमुपतिष्ठन्तु ।
-
[^1] 'रथेन जयिनं धर्म' ख.