This page has been fully proofread once and needs a second look.

अपि पश्यतो मम भवन्तमग्रतो
हृदयं न विश्वसिति तात! ते वधम् ॥ १०८ ॥
 
अमात्यः- कुमार ! अलमतिपरिदेवनदैन्येन[^1] ।
 
सहदेवः - (अनाकर्ण्य साश्रुपातम्)
 
प्राणास्तृणानि वपुषि प्रणयः परस्ताद्
वीरस्य ते भवतु निस्पृहता च राज्ये ।
मामङ्कलालितमनाथमपोह्य बालं
लोकान्तरं कथय तात! कथं गतोऽसि ॥ १०९ ॥
 
( इति मूर्च्छति ।)
 
(सर्वे करुणं नाट्यन्ति ।)
 
अमात्यः - कुमार ! समाश्वसिहि समाश्वसिहि ।
 
(सहदेवः पुनस्तदेव पठति ।)
 
अमात्यः - नन्वशोच्यस्ते[^2] वीरवर्गोचितां गतिं गतो जनकः ।
तदिदानीं त्वमपि कालोचितं प्रतिपद्यस्व ।
 
सहदेवः - का प्रतिपत्तिरितः[^3] परम् ।
 
अमात्यः - नन्ववगतषाड्गुण्यतत्त्वो भवान् । किमत्र मां
पृच्छति ।
 
सहदेवः – नाहं शोकातुर: किमपि वेत्तुं प्रगल्भः ।
-
[^1] 'परिवादन' ख.
[^2] 'कुमार नन्वशो' ख.
[^3] 'अतः परम्' ख.
[^4] 'ननु' इति खपाठे न.