This page has been fully proofread once and needs a second look.

नारदः - (सविशेषमालोक्य) ह ह ह,
 
घोरोद्गारश्वसनविसरच्छोणिताम्भःकणाना-
मासारेण क्षणमरुणयन्नन्तरिक्षस्य कुक्षिम् ।
बाहयन्त्रप्रगुनघटनोत्पिष्टपृष्ठास्थिभङ्ग-
ध्वानत्रस्यत्रिभुवनमरिर्भीमसेनेन[^1] भग्रः ॥ ९७ ॥
 
कृष्णः - [^2](विलोक्य) भगवन् ! न[^3] खलु भग्नः; किन्तु
भुग्रोऽयमस्माकं मनोरथः । यतः,
 
जीवितापायपर्यन्तं भङ्क्त्वा भीमेन भूतले ।
एष क्षिप्तोऽपि सुप्त्वेव प्रत्यर्थी पुनरुत्थितः ॥ ९८ ॥
 
अर्जुनः – (सवेदम्) अहो अद्भुतम् । यतः,
 
वीर्यादार्येण भग्नोऽपि पुनरुत्थाय युध्यति ।
 
(सहर्षम्) भन्नः पुनरयं दिष्टया (सानुतापम्) धिशेष पुनरुत्थितः ॥ ९९ ॥
 
नारदः -
 
भोश्चित्रं जगति ममापि चक्षुषोः प्रा-
गीदृक्षः समरविधिः परोक्षभृतः ।
 
कृष्णः - धिङ्माया किमियमसौ कथं मयि स्यात् ।
 
अर्जुनः - किं तावत् प्रभवति नान्तकोऽप्यमुष्मै ॥ १०० ॥
-
[^1] 'प्रगुणनघनोत्पिष्ट '- ख.
[^2] '(विलोक्य )' इति कपाठे न.
[^3] 'न खलु न खलु भग्नः शत्रुः' ख.