This page has been fully proofread once and needs a second look.

योर्निष्प्रतिबन्धः समरसंरम्भः संवृत्तः तद्वयमप्यार्यस्यारिष्टता-
तये समराङ्कणनिकटवर्तिनो भवामः । यतः,
 
स्वहस्तसाध्येऽपि जनस्य कर्मणि
प्रहर्षहेतुः सुहृदां समागमः ।
लघूकरोत्याशु निदाघमुल्बणं
समीरणो लब्धघवित्रधूननः ॥ ८४ ॥
 
सर्वे- तथा । ( इति परिकामन्ति ।)
 
कृष्ण: – (पुरो निर्दिश्य) अहो नु खल्वनयोरनियतजयपराजय-
मखिललोकविस्मापनमनुज्झितमल्लयुद्धसमयमाचेष्टितम् । तथाहि -
निर्धुतदन्तदलनं नितरां निरस्त-
केशग्रहं नखविलेखनमार्गशून्यम् ।
घोणाभिघातविमुखं रहिताक्षिरोधं
चित्रं प्रवृत्तमुभयोर्भयदं नियुद्धम् ॥ ८५ ॥
 
अर्जुन: - एवमेतत् । तथााह्यनयोः
 
आकर्षणभ्रमणचारविकर्षणानि
संरोधनिष्क्रमणरक्षणवञ्चनानि ।
संव्यूहनोद्वहनवेष्टनवेल्लनानि[^1]
सम्मोहयन्ति नयनैः सह मानसं नः ॥ ८६ ॥
 
नारद: - (विलोक्य सहर्षम्) दिष्टया साम्प्रतमवन्ध्यः संवृत्तः
प्रजापतेरस्मन्नयननिर्माणयत्नः । यदनयोरस्मदग्रत एव,
 
निबिडगरुडपक्षाक्षेपवित्रस्तलोकं
कलितधवलशङ्खं प्रस्फुच्चापयष्टि ।
-
[^1] 'संव्यूहनोपहनवेष्टन' क.
[^2] 'पक्षं' ख.