This page has been fully proofread once and needs a second look.

नारदः - (विचिन्त्य) भवतु[^1] विज्ञातम् । तदेतद् युद्धं[^2] युद्धमिति
तूर्णमाकर्ण्य ससम्भ्रमोदूघूर्णनतिरस्कृतमहार्णवप्रवाहं[^3] सन्नद्धं[^4] मगधराज-
सैन्यमित एवाभिवर्तते ।
 
कृष्णः - (पुरोऽवलोक्य) अहो प्रागल्भ्यं बृहद्रथसुतवरूथिनी-
मण्डलस्य । यतः,
 
सम्मूर्च्छत्समदचमूमतङ्गज्ञानां
क्ष्माचक्रं चरणभरेण दूरनम्रम् ।
उद्वोढुं कथमपि[^5] दिग्गजा: क्षमन्ते
व्याभुग्रोन्नमदुरुकन्धरैः शिरोभिः ॥ ८१ ॥
 
अर्जुन: - (ससम्भ्रमम् ) वयस्य वासुदेव ! किमावयोगयुध-
ग्रहणवेला वर्तते ।
 
कृष्णः - न हि द्वन्द्वयुद्धसीमानभिज्ञो[^6] जरासन्धः ।
 
नारदः - एवमेतत् । न युगान्तमन्तरेण दहति दिनकरो
जगन्ति ।
 
(नैपथ्ये)
 
किं किं स्यन्दनडम्बरेण रथिनः ! स्थेम्नाध्वमाधोरणाः !
दूरे सीदत सादिन: ! किमिह वः सम्पत्तपः पत्तयः !।
 
सर्वे - साधु जरासन्दः । साधु । सत्यसन्धः खल्वसि ।
-
[^1] 'भवतु तावत् जातं तदेव' ख.
[^2] 'युद्धमिति तूर्ण' क.
[^3] 'उद्घूर्ण तिरस्कृत' क.
[^4] 'सन्नद्धमगध' क.
[^5] 'कथमिव' ख.
[^6] 'युद्धप्रकारसीमा' ख.