This page has been fully proofread once and needs a second look.

गात्रेणाहमकृत्रिमोल्बणमहामांसच्छटाविक्रय-
क्रीडाडम्बरमाचरामि समरे नक्तञ्चरेभ्यश्चिरम् ॥ ७५ ॥
 
भीमः – (कृष्णार्जनाववलोक्य ) वयस्य वृष्णिवीर! वत्स धन-
ञ्जय ! इदमुत्थीयते । सम्प्रत्यवसरः[^1] पौरुषस्य ।
 
कृष्णः – निष्प्रतिवीरं वीर(य)स्व ।
 
अर्जुनः – विजयिनं[^2] त्वां पश्येयम् ।
 
भीमः - (उत्थाय) निभृतं वयस्यवत्साभ्यां स्थीयताम् । (कति-
चित् पदानि गत्वा) भगवन् ब्रह्मसम्भव! नमस्ते ।
 
जरासन्धः - (अञ्जलिं बद्ध्वा) भगवन् । प्रणामः प्रतिगृह्यताम् ।
(इत्युभौ प्रणमतः ।)
 
नारदः - विजयकीर्तिभाजनं भवेतां भवन्तौ । ( उभावुत्थाय
परिकरं[^3] रचयतः ।)
 
जरासन्धः - एष सज्जोऽस्मि । सज्जीभव[^4] ।
 
भीमः – ननु नित्यमेव[^5] सङ्ग्रामसज्जो भीमसेनः ।
 
जरासन्धः – तदितः सकलगीर्वाणगन्धर्वयक्षराक्षसदनुजलोक-
[^6]लोचनमहोत्सवायमानसमरसम्भवसमुचितमल्लयुद्धाक्षवाटमवतरावः[^7] ।
 
भीमः - बाढम् । (इत्युभौ साटोपं निष्क्रान्तौ । )
-
[^1] 'ननु संप्रत्य' ख.
[^2] 'जयिनं' ख.
[^3] 'परिकर बद्ध्वा' ख.
[^4] 'सज्जीभव' इति खपाठे न.
[^5] 'सत्यमेव' क.
[^6] 'लोचनोत्सवा' ख.
[^7] 'समरसंरम्भसंमर्दिमल्ल' ख.