This page has been fully proofread once and needs a second look.

कृष्णः - (दृष्टिक्षेपेण वारयित्वा) न खल्वनिर्धारितवीरप्रतिवीरसमयं
द्वन्द्वयुद्धं प्रशंसन्ति ।
 
जरासन्धः - भगवन् ! देवर्षे ! अनुजानीहि माम् । नातः
परमप्रियाणामहं सोढा ।
 
नारदः - भो वीरवृन्दिष्ट ! ननु धर्म्यस्तवायं विधिः । अनु-
ज्ञात एव । यतः,
 
ललाटनिःसृतं रक्तं रञ्जपत्यधरं यदा ।
सङ्ग्रामयज्ञे तद्राज्ञां सोमपानमिति स्मृतिः ॥ ७१ ॥
 
जरासन्धः - धन्योऽस्मि ।
 
शिष्यः – (क) अम्भो ! महेसिणो कलहवड्ढणवेअड्ढम्[^1] । मम
उण एदाणं वअणसंभमेण उब्भन्तं विअ हिअअम् ।
 
कृष्णः - भो मगधराज ! त्रयाणामस्माकं कतमस्ते रोचते
प्रतिवीरः ।
 
जरासन्धः- (सजुगुप्सम्) द्वयोरिति वक्तव्ये त्रयाणामित्या-
त्मानमपि मया सह सम्मर्दक्षमं निर्दिशसि । तदिदमसाम्प्रतम्[^2] ।
 
यतः,
 
नाहं बाणो न खलु नरको नापि केशी न कंस-
श्चाणूरो वा न च स ( डिभको? हि बको) नाप्यरिष्टो न हंसः ।
-
(क) अहो ! महर्षिणः कलहवर्धनवैदग्ध्यम् मम पुनरेतेषां वचन
सम्भ्रमेण उद्भ्रान्तमिव हृदयम् ।
-
[^1] 'कलहप्पाडवेअड्डं' ख.
[^2] 'तदेव सांप्रतम्' ख.